SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अट्ठाइ १३ 乐回5回回听回听回回的回听写听回回回f अथ गोशालोऽवदत् भवतां तपःकष्टं वृथैव, यतः शुभाशुभफलानां कारणं नियतिरेवास्ति, ततो मुनिरवादीत् पौरुष-नव्याख्यान मपि कारणं मन्यस्ख, यदि सर्वत्र नियतिमेव कारणं मन्यसे तर्हि अभीष्टसिध्ध्यर्थ सर्वाः क्रिया वृथा प्रसज्येरन् , a तथाहि हे नियतिवादिन ! सर्वदा स्वस्थाने एव किं न तिष्टसि ? भोजनाद्यवसरे च भोजनाद्यर्थ च कथमुद्यमं करोषि? एवं खार्थसिद्धये नियतिवत्पौरुषमपि साध्यस्ति, अर्थसिद्धौ नियतेरपि पौरुषमाधिक्यं भजते, तथाहि-आका शात्पानीयं पतति, परं भूखननादपि तद्भवेत् , यतो नियतिबलीयसी, परं नियतेरपि पौरुषं बलीयः, एवं स मुनिगो- शालं निरुत्तरीचक्रे तदा जयजयशदं कुर्वद्भिः खेचराद्यैश्च तस्य महामुनेही प्रशंसा कृता. तत आर्द्रऋषिहस्तितापसानि श्रमसमीपे आययौ, तत्रस्थास्तापसाश्च एक महांतं हस्तिनं हत्वा तन्मांस भुंजाना बहून् दिवसान व्यतीयंति, ते चैव मूचुः, एकस्यैव हस्तिनो हननं बरं, यत एकजीवघातेन भूयान् कालोऽतिगम्यते. मृगतित्तिरमत्स्याद्यैर्धान्यैश्च बहुम भिरपि न तथा, तस्मात्तक्षणं न युक्तं बहुपापसद्भावात् , तदा च ते मिथ्याधर्मनिष्टास्तपस्विनो मारणार्थ एकंन महामतंगजं बबंधुः, यत्र शृंखलाबद्धः स गज आसीत्तेनैव मार्गेण करुणानिधिः स महर्षिर्जगाम, तदा स हस्ती मुनिपंचशतीयुतं बहुभिर्जनैवेद्यमानं तं महर्षि दृष्ट्वा लधुकर्मत्वादियचिंतयत् , अयमप्येनं मुनिं वंदेयं यदि बद्धो न के न भवेयं, बद्धस्तु किं करवाणि ? एवं चिंतयतस्तस्य महर्षेर्दर्शनात्सद्योऽयाशृंखला व्यशीर्यत, अथ स हस्ती निरर्गलः + सन् त मुनि वंदितुमभ्यागात् , तदा लोका एष मुनिहतो हत इति ब्रुवाणाः पलायं चक्रिरे, मुनिस्तु तथैव तस्थौ, गजोऽपि नम्रीकृतकुंभस्थलः सन् तं मुनिं नमतिस्म, शुंडादंडं प्रसार्य मुनिपादौ स्पृष्ट्वा परमं सुखं पाप, ततः स गजः FBानमनमानफनधनधानमनन For Private and Personal Use Only
SR No.020076
Book TitleAsthanhika Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyanak
PublisherHiralal Hansraj
Publication Year1942
Total Pages26
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy