________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
न्यायप्रकाशः।
२२५
विधानाञ्च न वाक्यभेदः । अतएव पार्थसारथिमिथैदशमे, तत्र तत्र सोभयविशिष्टा विधीयत इति अनेकगवाद्यात्मिकैका दक्षिणापि विधीयत इति चोक्तम् । । न चैवम् ऋविग्भ्यो दक्षिणां ददातीत्यस्थानर्धक्यम् । तस्यानुवादत्वात्, ऋत्विकसम्बन्धपरत्वात्। दक्षिणाशब्दसामाधि ऋत्विजां प्रकाशाध्वर्यादीनाञ्च तत्सम्बन्धः स्यात् । एतहाक्यतस्माविधयत्वाङ्गीकारे तु एकस्या दक्षिणाया एव विधेयतया न वाक्यभेदप्रसक्तिरिति भावः । उभयविशिष्टदक्षिणाया विधयत्वे मीमांसकसम्मप्ति दर्शयति पतएवेति । दशमे दशमाध्यायवतीयपाद। तत्र तवेति । कुत्रचित् सोभयविशिष्टे त्यादिवाक्यम् । कुच. चिञ्च पनिकेत्यादिवाक्यमुत्रमित्यर्थः । सोभयविशिष्टेति। सा दक्षिणा। इदं हि निधायां सम्पूर्ण वाक्यम् । वबागवाहोनि द्रव्याणि सङ्ख्या च दक्षिणमा सम्बध्यते । सोभयविशिष्टा विधीयत इति ।
ननु विशिष्टदक्षिणाविधाने विभयो दक्षिणां ददातीति वाक्यान्तरेण पुनर्दक्षिणाविधानानुपपत्तिरित्याश निरस्थति न चेप्ति। इत्यस्य एतदायेन दक्षिणाविधानस्य । अरशहानिरसने हेतुमाह तस्येति । दक्षिणादानप्रतिपादनस्येत्यर्थः । अनुवादत्वादिति । बथाच नैतेन दक्षिणाविधानं किन्तु तस्स हादशशतं दक्षिणेत्यनेन विहिताया दक्षिणाया पनुवाद्यत्वमिति भावः । तहि तदनुवादेन किं विधायकत्वं तदाक्यस्येत्यवाह ऋत्विगिति । परिप्राप्त दक्षिणाया ऋत्विक्सम्प्रदानकत्वमावविधायकत्वादिस्यर्थः। तथाच ऋत्विसम्बन्ध-' विधानाय दक्षिणानुवादस्य सप्रयोजनतया नानर्यक्यमिति भावः ।
ननु दक्षिणाया: कम्मवेतनत्वेन कर्मनियुक्तब्राह्मणसम्प्रदानकत्वावश्यकत्वे ऋत्विक्सम्यदानकत्वस्य सुतरां सिद्धत्वात् ऋत्विम्भा इति वाक्यस्यानर्थक्यं तदवस्थं तस्य द्वादशशतं दक्षिणेति दक्षिणाशब्दसामर्थ्यादेव ऋत्विक्सम्बन्धलाभादित्यत पाह दक्षिणाशब्दसामर्थ्यादौति । हि यस्मात् । तथाच एतद्दाक्याभाबे दक्षिणाशब्दसामर्थ्यात् ऋत्विजां प्रकाशाध्वयंप्रभृतौनामपि दक्षिणासम्बन्ध: स्यात् । ऋत्विजामिव प्रकाशाध्वर्युप्रभृतीनामपि कर्म विशेषनियुक्तत्वात्। तथा शतं ब्राह्मणा: सोमं भक्षयन्तौति शुन्यु तसोमपानार्थोपनिमन्त्रितब्राह्मण गणस्य प्रकाशाध्वर्युरूपत्वात् ।
एतदाक्य त्तु दक्षिणाया ऋत्विसम्प्रदानकत्वमेव प्रतीयते न तु ज्योतिष्टोमा कर्म
For Private And Personal