SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। २०७ विधानात्। न च प्राकृतेन कृष्णसारङ्गवर्णेन नैराकायान्न चित्रत्वविधानं युक्तमिति वाघम् । उपदिष्टेन चित्रत्वेनातिदिष्टस्य वर्णान्तरस्य बाधोपपत्तेरिति चेन्मेवम् । ___नहि चित्रयेत्ये केन पदेन स्वीकारकस्योद्देशश्चित्रत्वस्य च विधानं सम्भवति । एकप्रसरतामङ्गलक्षणवाक्यभेदापत्तेः । उद्देश्यविधेयभावस्थानेकपदसाध्यत्वात्। अतएव वषटकर्तुः प्रथमभक्ष इत्यत्र विशिष्टभक्षणविधिन तु भक्षानुवादेन प्राथम्यविधिरित्यक्तं हतीये। मेष्यनुवादेन चित्रत्वविधाने फलपदानर्थक्यापत्तेश्च । उभय. सथाच स्त्रीत्वस्यापि परिप्राप्ततथा प्रविधेयत्वादिति भावः। प्राकृत नेति । अनौषीमीयपशुसम्बन्धि नेत्यर्थः । अनीषोमीयपशीः पशुमात्र प्रकृतित्वादिति भावः । कृष्णसारङ्गति । प्रतिवदिकसिरिति न्यायेन मेष्यामपि अनौषो मौयगुणस्य प्राप्तिसम्भवादिति भावः । भैराकाशयात् वर्णविशेषविषय काकाजाविरहात्। उपदिष्टे नेति। चिच्या यजेते ति बाक्यस्यामारम्य विधानस्य प्रकृतिभूताग्रीषोमीय पशुविषयकल्वसम्भवेऽपि तत्र गुणविशेषस्य विशेषविधिविहितत्वेन पुंस्त्व विशिष्टत्व स्य बोधितत्वेन चावकाशमलभमानस्य विकृतिभूत स्त्रीपविषयकत्वावश्यकत्वे मेष्या एव तदुपदेशविषयत्वमिति भावः । एकप्रसरतेति । मिलितार्थविधायकतेत्यर्थः। तसङ्गलक्षणस्त हाधरूपी यो वाक्यभेदस्त दापत्तरित्यर्थः । एकपदीपात्तयोः पदार्थयोरुद्देश्य विधेयभावासम्भवे हेतुमाइ उद्देश्येसि । अनेक पदेति। विभिन्नपदबोध्यत्वादित्यर्थः। तत्र सिद्धान्तसम्मतिमाह अतएवेति । प्रथममक्ष इति समस्तैकपदत्वेन तदुपस्थितयोः प्राथम्यभक्षणयीमध्ये भक्षणानुबादेन प्राथम्यविधामासम्भवं हेतूकत्य प्राथम्य विशिष्टभक्षणस्य विधेयत्वं सिद्धान्तितमित्यर्थः। तृतीये हतीयाध्यायतृतीयपाद। ननु मेष्या यजेतेति विधिप्राप्त मेष्यनुवादेन चिचत्वमेव विधेयं न तु तत्पदप्राप्तस्त्री कारकोद्देशेनेत्यत पाह मेष्य नुवादेनेति । फलपदेति। पशुकाम पति फल कीर्तनानर्थ क्यापत्तरित्यर्थः। ननु परिप्राप्तमेषीयाग फलमपि विधातव्यमित्यत पाह उभयेति । For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy