SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशः। दैक्षस्य ज्योतिष्टोमाङ्गत्वेन स्वतन्त्रफलाकाझाया अभावात पशुकामपदं न फलसमर्पकम् । किन्तु अग्नीषोमीयपवर्जना तया प्राप्तकामनानुवादः । तथाच न वाक्यभेद इति चेन्न । तथापि देक्षानुवादेन चित्रत्वस्तीत्वविधाने वाक्यभेदात् । विशिष्टकारकविधानेऽपि गौरवलक्षणो वाक्य भेद एव। कारकस्यापि प्राप्तत्वेन विशिष्ट विधानानुपपत्तेश्च । कामपदस्यापि स्वररुतः फलपरस्य कामानानुवादत्वे आन ननु चिचया यजेत पशुकाम इत्यस्य पशु कामपदेन तदीयफलसम्बन्धविधायकवे वाक्य-- भेदापत्तिरित्यत्र देक्षस्य ज्योतिष्टोमागतया फलाकाशाविरहात् तत्र फलसम्बन्धविधानसम्भावनैव नास्ति. कुतस्तमादाय वाक्य भेद पापादनीय इत्याह देक्षस्येलि। लहि पशुकामपदं किमर्थकमित्याह किन्विति । अनौषोमी येति । अग्नीषोमौयस्य पशीर्यदर्जन क्रयादिरूपं तदङ्गतया तवनकतया प्राप्ता या कामना गर्जनेच्छा तदनुवाद इत्यर्थः । तथा व पशुकाम: पशुलि सुचित्रया यजेत । यागार्थ विविधवी स्त्रियं पशुमारेदिति तात्पथ्यम् । एवं सति फल सम्बन्धमादाय न वाक्यभेद भापादनीयः। फल काम-- नाया अविधेयत्वादित्याह तथाचेति । पाशा निराकरोति नेति । बथापौति । उत्तरीत्या फलसम्बन्धस्य विधेयत्वानङ्गीकारेऽपीत्यर्थः । ननु चिचत्वं स्त्रीत्वञ्च न पृथक् विधीयते ये न वाक्यभेदः स्यात्। किन्तु चिचत्वस्त्रौत्वविशिष्टं यत्करण कारकं तदेव विधेयमिति न वाक्यभेद इत्यत आह विशिष्टेति । गौरवलक्षण इति । करणस्य धर्मइयवत्त्वादिति भावः । इदमापाततः । वस्तुतो वाक्यइयमेव स्यात् करण कारकस्याविधेयत्वादित्याह कार कस्यापीति । प्राप्तत्वेन पशुना यजेतेति प्रधानविधौ हतीयान्तपशुपदेन पशोस्तल्करणत्वस्य च प्राप्तत्वेन। विशिष्ट विधानेति । धर्मयविशिष्टकरणकारकविधानस्यानुपपत्तरित्यर्थः । तथाच वित्रत्वं स्त्रोत्वञ्चेति गुण इयमेव भवता विधातव्यम् । लयोश्च गुणयो: “गुणानाञ्च परार्थत्वादसम्बन्धः समत्वात् स्या"दिति न्यायेन परस्परासम्बन्धानरपेक्ष्येण चित्रत्वं स्त्रीत्वञ्च विधेयमिति वाक्यभेद एव । विविधवन पशुना यजेत स्त्रीरूपेण च यजतेत्येवंरूप इति भावः। अगत्या वाक्यभेदोऽपि श्रेयानित्यती दोषान्तरमा कामपदस्येति ! For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy