SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir न्यायप्रकाशन सह प्रयुज्यमानेषु प्रधानेषु सन्नियतितानामानामावत्यानुष्ठाने कर्तव्ये दितीयादिपदार्थानां प्रथमानुष्ठितपदार्थक्रमात् यः क्रमः स प्रवृत्तिक्रमः । यथा प्राजापत्याङ्गेषु। प्राजापत्या हि वैश्वदेवौं कृत्वा प्राजापत्यैश्चरन्तीति वाक्येन तृतीयानिर्देशात् सेतिकर्तव्यताका एककालत्वेन विहिताः । अतस्तेषां तदङ्गानाञ्चोपाकरणनियोजनप्रभृतीनां साहित्यं सम्पाद्यम् । प्रवृत्तिक्रमं निरूपयति सहेति । साहित्ये न कर्त्त त्यतया विहितष्वित्यर्थः । प्रधानेषु परस्पराङ्गाङ्गिभावरहितेषु । सन्निपतितानां योगपोनीपस्थितानाम्। पावत्येति । सत्तत्प्रधानेषु तत्तदङ्गानां योगपद्येनानुष्ठानस्यावश्यकतया प्रव्यवधानेनानुष्ठानस्यैव शास्त्रार्थत्वेन तत्तत्प्रधानेषु तत्तदङ्गानामव्यवहितानन्तर्येण पुन: पुनरनुष्ठाने इत्यर्थः । द्वितीयादिपदार्थानामिति । प्राथमिकाङ्गस्य तत्तत्प्रधानेष्वावृत्यानुष्ठानसमाप्तावपस्थितानां तदुत्तरकर्तव्याङ्गानामित्यर्थः । यः क्रम इत्यनेनास्यान्वयः। प्रथमानुष्ठितेति । प्राथमिकास्य किश्चिन्द्रधानमारभ्यानन्तव्येण प्रतिप्रधानमनुष्ठाने यन्पोर्खापर्यमुपलब्धं तस्मादित्यर्थः । उदाहरति यथेति । प्राजापत्येति । वाजपेये सप्तदश प्राजापत्यान् पशूनासमतेवि अतिविहितसप्तदशपशूनामग्नीषोमीय पशु विकृतित्व नातिदेशप्राप्तेषु उपाकरणादिश्चित्यर्थः । प्रयत्तिकम इत्यन्वयः। तेषु कुत: प्रवत्ति क्रम इत्यत्र हेतुमाह प्रानापत्या होति । एककाखत्वेन विहिता इत्यनेनान्वितम् । तथा विधायक श्रुतिवाक्यमा वैश्वदेवौमिति । तृतीयानिर्देशात् हतीयाबहुवचननिर्देशात् । पत्र हतीयार्थोऽभेदः । तस्य चाचरण क्रियायामन्वयः। पाचरणमनुष्ठानम्। तेन प्रानापत्याख्यकमाभिन्नानुष्ठानप्रतीते: प्राजापत्यस्य सेतिकर्तव्य ताकत्वं लभ्यते। साङ्गप्रधानसम्पादनस्यैव कर्मानुष्ठानत्वात्। न होकदेशाचरणे कभानुष्ठितमिति व्यवलियते। बहुवचनेन तु साहित्यप्रतीतिबन्नेन एककाल कर्तव्यता प्राप्ता। एतदेवाह सेतिकर्तव्यताका इति । एककालत्वेनेति च । पत इति। यतः प्राजापत्यानां तदिति कर्त्तव्य तानाचैक कालकर्तव्यताविधानमत इत्यर्थः । उपाकरणनियोजनप्रभृतौनामिति । एक कपशुविषयापामिति शेष: । साहित्यमेककाख कर्तव्यत्वम् । सम्पाद्यं घटयितव्यम् । For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy