________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१४८
न्यायप्रकाशः।
क्रममपि पदार्थविशेषणतया विधत्ते । तत्र क्रमो नाम विततिविशेषः पौर्वापर्यरूपो वा।
तत्र षट प्रमाणानि सन्ति । अत्यर्थपाठस्थानमुख्य प्रवृत्त्या
कर्मसमुदायबोधनात् पौवापयंरूपक्रमस्य पदार्थविशेष छत्वमिति भावः। क्रमपदार्थ निरूपयति तवेति । प्रयोगविधावित्यर्थः । विततिविशेष इति। यथा अव्यवधानेन स्थापनाइटादः श्रेणीभावो विततिस्तथा अव्यवधानेनानुष्ठानाकर्मगणस्य धारावाहिकत्वं विततिः। तत्र घटादेः पूर्व पूर्वस्य सनावद शायामेवोत्तरस्य स्थापनम् । कर्मगणस्य नु. पूर्वपूर्वध्वंसदशायामेवीत्तरोत्तरस्यानुष्ठानमिति वैलक्षण्याविशेषपदम् ।
ननु तथाविधा विततिरङ्गप्रधानरूपकर्मसमुदायनिठेव, म पदार्थनिष्ठा, तचदेकैककर्मणः पदार्थपदव्यपदेश्यत्वात् । तत्कथं विततिनाम्नः क्रमस्य पदार्थविशेषणतया विधानमुक्तमित्यतः क्रमपदार्थमन्यथा निर्वक्ति पौपियति । पौवापर्यं कस्यचित्कर्मणः पूर्वलं कस्यचिदपरत्वमित्यर्थः। तच्च एकैककर्मनिष्ठमिति पदार्थविशेषणमिति भावः ।
मनु पदार्थबोधक वाक्यषु क्वचित् क्वचित् क्रमः श्रूयते । यथा वषट्कर्तुः प्रथमभच इति । अध्वय्यगृहपतिं दौक्षयित्वा ब्रह्माणं दौक्षयति तत उद्गातारं तती सीतारमित्यादि च, न तु सर्वत्र बाक्य । एवञ्च तत्तवाक्यै क वाक्यतापन्न: प्रधानविधिः कथं सर्वपदार्थविशेषणतया क्रमं बोधयेत् । स हि यथाभिहितान्यङ्गानि समीक्ष्य प्रवर्त्तमानो नाधिक
ते । इत्यतः श्रुतिमन्तरेणापि क्रमः प्रमेय एव, श्रुतिवदन्येषामपि क्रमप्रमाणानां सद भावादिति प्रतिपादयति तत्रेति। क्रमप्रतिपत्तावित्यर्थः । षट प्रमाणानौति । तथाच अर्थादीनामपि क्रमप्रतिपादकतया सर्वत्रैवान्घतमप्रमाणेन क्रमप्रनिपतिरावश्यकीति प्रयोगविधिना पदार्थमावस्य क्रमी विधीयत एवेति भावः । तत्र षडिति सङ्ख्या निर्देशात् क्रमप्रतिपत्तौ प्रमाणान्तरासद्भावप्रतिपादनमुखेन षडन्यतमप्रमाणाविषयत्वे क्रमप्रतिपत्तिनास्तीवि सूचितम् । तथाच पश्चमाध्यायप्रथमपाद सिद्धान्त सूत्रम् ।।
__ अनियमोऽन्यति । यच क्रमप्रतिपादकं श्रुत्याद्यन्यतमप्रमाणं नाहि तत्र क्रमनियमो नास्तीत्यर्थः । तदुदाहरणमर्थ संग्रहटोकायामुपन्यस्तमम्माभिः । षट् प्रमाणानि नाम्ना निर्दिशति श्रुत्यति । उद्दिष्टेषु तेषु प्रथमं श्रुतिं निरूपयति
For Private And Personal