SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org न्यायप्रकाशः 1 Acharya Shri Kailashsagarsuri Gyanmandir अतएव शन्धत मन्त्रः सान्नाय्यपाचाङ्गम् पाठसादेश्यात्, न तु पौरोडाभिक समाख्यया पुरोडाशपात्राङ्गमिति । For Private And Personal १३१ समाख्यातः स्थानप्राबल्यमुदाहरति अतएवेति । शुन्धनमन्त्र इति । अत्रायं बोधसौकर्या विस्तरः क्रियते । दर्शपौर्णमासकाण्डान्तर्गतं किञ्चित्काण्डं पौरोडा शिकमिति समाख्यायते । यत्र पुरोडाशोपयोगिनी विषयः श्रूयन्ते । पुरोडाशमर्हति पौरोडाशिकमिति समाख्यया तत्काण्डोक्तानां पात्राणां कर्म्मणां मन्त्राणाञ्च पुरोडाशोपयोगित्वं प्रती. यते । एवञ्च शुम्वध्वं दैवाय कर्मणे इति मन्त्रस्यापि तत्काण्डपठितत्वेन तत्काण्ड पठितपुरोडाशपात्राणामुलूखलजुचादीनां शुम्धनार्थत्वं समाख्यया सिध्यति । पाठसादेश्यरूपस्थानेन तु सान्नाय्य पात्र शुन्धनार्थत्वं बोध्यते । कल्पनीयः । तथाहि तस्मिन्नेव काण्डे श्रादाविभवर्हिः सम्पादनं तदुत्तरं सान्नाय्यपात्रं तदनन्तरञ्च मुष्टिनिर्व्याप इति त्रयाणां पदार्थानां क्रमेणाभिधानम् । मन्त्राणाञ्च प्रथमभिभवर्हि :सम्पादनविषयोऽनुवाकः । अनन्तरं शुम्बध्वमित्यनुवाकः । तदनन्तरञ्च मुष्टिनिव्र्वापविषयोऽनुवाक इति क्रमेणाभिधानमिति यथासप्रक्रमरूप पाठसा देश्यात् सान्नाय्यपात्रशुभ्वनार्थत्वं सिध्यति । तदेवं स्थानसमाख्ययोर्विरोधे स्थानं बलवत् । पौरोडाशिकसमाख्यायां हि प्रकृतिः पुरोडाशमभिधत्ते । तद्धितप्रत्ययेन च काण्डम् । न चैतयोः सम्बन्धः केनचिदभिधीयते । तयोः समभिव्याहारादेव परस्पर सम्बन्धः तथाच कृत्नपुरोडाशपात्रसन्निधिर्न प्रत्यचः किन्वर्थापत्या कल्प्यते । तथाहि यदि शुभ्वनमन्त्रस्य सर्व्वपुरोडाशपात्रसम्बन्धो न स्यात्तदा तत्काण्डपठितमन्त्रस्य पौरोडाशिक - समाख्या न स्यादिति । तस्मात्काण्डसमाख्यया सम्बन्धं परिकल्प्य तदन्यथानुपपत्त्या परस्पराकाङ्गारूपं कृत्स्रपात्रप्रकरणं कल्पयित्वा तद्वारा वाक्यलिङ्गश्रुतीच कल्पयित्वा तया त्या विनियोगो वाच्य इति समाख्याया अर्थविप्रकर्षः । सान्नाय्य पात्र शुन्धने मन्त्र सम्बन्धस्तु यथासङ्कापाठात् प्रत्यच एव । तेन प्रत्यक्ष सम्वन्धन प्रकरणादीनां चतुर्णामेव कल्पनात् शीघ्रोपस्थापकतया समाख्यां बाधित्वा पाठसादेश्यरूपस्थानेनैव सान्नाय्य पात्र शुन्धने मन्त्री विनियुज्यते इति सिद्धम् । एवमेव तृतीयाध्यायतृतीयपादे न्यायमालादयः । तथाचोकं वार्त्तिकह्नि; I वैदिकं देशसामान्यं प्रत्यक्षं दृश्यते क्रमे । समाख्यायान्तु सामान्यं कल्प्यत्वाद्दिप्रकृष्यते ॥ इति ।
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy