SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ع www.kobatirth.org न्यायप्रकाशः । Acharya Shri Kailashsagarsuri Gyanmandir होतारं वृणीते इति प्रतिषेधात् । औदुम्बरत्वेन च खादिरत्वबाधः प्राप्तबाध एव वक्तव्यः शरकुशन्यायेन । चोदकस्य च खादित्वाविषयत्वे प्रात्यभावात्तदनुपपत्तिः स्यादिति । उच्यते । तातयप्रमाणविनियुक्तेनेतरस्य बाधनं तावदप्राप्तबाधनम् । प्रकरणञ्च तार्त्तीयम् । तेन तद्दिनियुक्तीदुम्बरवेनेतरस्य बाधनमप्राप्तबाध एव । नहि वैकृतेन प्राकृतबाधः प्राप्तबाध एवेति कुलधर्मः । ष्टित्वात् दर्शपौर्णमासप्रकृतिकतया होतृवरणादिप्राप्तौ महापितृयज्ञे न होतारं वृणीते नामिति श्रुत्या प्रतिषेधात् प्रकृतिप्राप्त होतृवरणस्य बाध इति दशमाध्यायाष्टमपादे सिद्धान्तितम् । एषूदाहरणेषु प्राकृतानां कुशानामित्यादिषष्ठान्तपदानन्तरं बाध इत्यध्याहाय्य तचैव पञ्चम्यन्तत्रयं हेतुर्द्रष्टव्यः । एवञ्च खादिरत्वस्यापि प्रत्याम्नानात् शरमयवर्हिषा कुशमयवर्हिर्वाधिवत् श्रदुम्बरत्वेन बाधः प्राप्तबाध एव वक्तव्यो नाप्राप्तबाध इत्याह चौदुम्बरत्वेनेति । भवतु प्राप्तबाधत्वमेव वक्तव्यमित्यभिमतौ दोषमाह चोदकस्य चेति । अतिदेशस्य त्वित्यर्थः । खादिरत्वेति । भवन्मते अतिदेशात् खादिरत्वप्रतीतेः प्रागेव चौदुम्बरत्वस्योपस्थितेरतिदेशस्य न खादिरविषयत्वमिति भावः । तथात्वे खादिरत्वस्य प्राप्तत्वं न सम्भवतीत्याह प्राप्तप्रभावादिति । तदनुपपत्तिः प्राप्तबाधत्वानुपपत्तिः । तथाच, व्यवहार्यतया प्रमाणप्रतिपन्नार्थस्य व्यवहारप्रतिबन्धस्यैव प्राप्तबाधत्वम् । यदि तु खादिरत्वस्यातिदेशरूपप्रमाणेन कर्त्तव्यतया प्रतीतत्वं भवता नाङ्गीक्रियते तदा चौदुम्बरत्वेन तदाधस्य कथमपि प्राप्तबाधत्वं न घटते । परन्तु प्रमाणविशेषाप्रतीतस्य कर्त्तव्यतया प्रतीतत्वेन तद्दावस्याप्राप्तबाधत्वमेवाङ्गीकाय्र्यम् । तथा सति वैकृतेन प्राकृतबाधस्य प्राप्तबाधत्वसिद्धान्ती व्याहन्येतेति पूर्वपचयितुरभिप्रायः । अत्रादावप्रतिबाधत्वमेवास्माकमिष्टमित्यभिप्रायेण तद्दीजं writer धत्वमेव घटयति तातयेति । श्रुतिलिङ्गादिप्रमाणे व्यर्थः । तद्दिनियुक्तेन तद्बोधितेन । प्रकरणश्चेति । श्रुतिलिङ्गादिषु प्रकरणस्यापि कौर्त्तनादिति भावः । इतरस्य खादिरत्वस्य । ननु वैकृतेन प्राकृतबाधः प्राप्तबाध एवेत्यभिधानं विरुध्येतेत्यत आह वैनेति । कुलधर्म इति । नियम इत्यर्थः । तथाच वैकृतेन प्राकृतबाधः प्रायेण सिद्धान्तयति उच्यत इति । For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy