SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ५८ www.kobatirth.org न्यायप्रकाशः 1 यत्तक्कं कर्त्तुरनभिधामे देवदत्तेन पचतीति टतीयाप्रसङ्ग इति । तत्र तृतीया हि कर्त्तृप्रतिपत्त्यर्थं तद्गतसङ्ख्याप्रतिपत्त्यर्थं वा । तत्र कर्त्ता तु भावनापाल्लभ्यत इति न तत्र तृतीयाप्रेक्षा । वत्सङ्ख्या त आख्यातेनैव प्रतीयत इति न तत्राप्यपेचा । यथाहु: Acharya Shri Kailashsagarsuri Gyanmandir सङ्ख्यायां कारके वा धोर्विभक्त्या हि प्रवर्त्तते । उभयञ्चात्र तत्सिद्धं भावना लिविभक्तितः ॥ इति । कर्माद्यर्थेषु विधानात् । एवञ्च कस्यैकत्वादी खादिविभक्तौनामेकवचनादिविधानमित्याकाङ्क्षायामर्थान्तरस्य कम्र्मादेरेव एकत्वादी एकवचनादीनि प्रयोक्तव्यानि सन्निहितत्वादिति चिन्तितम् । यथोक्तं काशिकायाम् "वहुषु बहुवचनं भवति बहुत्वमस्य वाच्यं भवतीति यावत् । कर्मादयोऽप्यपरे विभक्तीनामर्था वाच्यास्तदीये बहुत्वे बहुवचनं कर्मादिषु बहुषु बहुवचनमित्यर्थः” इति । तर्हि तिविभक्तीनामेकवचनादिकं कस्यैकत्वादौ प्रयोक्तव्यानीत्याकाङ्गायां ल: कर्म्मणौति सूत्रेण तिङामपि कर्मत्वादिकं वाच्यमित्यङ्गीकृतम् । तदुक्तं महाभाष्येसुपां कर्मादयोऽप्यर्था: सङ्ख्या चैव तथा लिङामिति । व्याख्यातञ्चैतत् तत्रैव “सुपां सा चैवार्थः कमादयश्च । तथा तिङा” मिति । एवञ्च सुपामिव तिङामपि अपराधस्य कम्र्मादेरेकत्वादी एकवचनादिकं प्रयोक्तव्यमित्येवंरौत्या प्रयोगसाधनाय ल: कर्म्मणौति सूत्रेय तिङां ककर्त्ताद्यर्थकत्वमङ्गीकृतं न तु वस्तुतो वाच्यवाचकभावसम्बन्धबोधनायेति । आपत्यन्तरं निराकरोति यत्तक्तमिति । तृतीयाघा: प्रयोजनद्दयमुपन्यस्य तदुभयचाप्यनपेचां दर्शयन्ननर्थकत्वं प्रतिपादयति तृतीया होति । तत्र प्रमाणमाह यथाहुरिति । सङ्कप्रायामिति । सङ्कप्रायामेकत्वादी कारके कर्तृत्वादौ च धोर्बुद्धिर्विभा तृतीयादिविभक्त्यैव प्रवर्त्तते उत्पद्यते । अत्र यजेतेत्यादौ तु तदुभयमेव भावनाचेपात् लिविभक्तितश्च fart अती विभक्तर्निष्प्रयोजनतया प्रातिपदिकार्थमाचे प्रथमेति भावः । ܟ For Private And Personal
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy