SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अर्थसंग्रहः । प्रजापतिविधानाभावात् । नचात्र समुचितोभयविधानमेव कथं नेति वाच्यम् । समुच्चितोभयविधानापेक्षया अन्यतः प्राप्तमग्निमनूद्य तत्समुच्चितप्रजापतिमात्रविधाने लाघवात् । For Private And Personal १२५ केवलप्रजापतिविधाने तु विरोधादाधावश्यम्भाव इतिभावः । ननु मन्त्रवर्णगतमग्निमनूद्य तत्समुचितप्रजापतिविधाने मानाभावात् समुच्चिताग्रि प्रजापतु प्रभयविधानमेवास्तु । तथा सति केवलाग्नितोऽग्रिसमुचितप्रजापतेर्विभिन्नतया विभिन्नदेवताप्रतिपादकत्वेन विरोधान्मन्ववर्णस्थाग्रिपदस्य अभिसमुचितप्रजापतिपरत्वमस्तु । तत् कथं मन्त्रवर्णादग्निप्राप्तिरित्याशङ्कामपि परिहरति न चेति । अग्न्यनुवादेन तत्समुञ्चितप्रजापतिविधानप्रमाणमेव परिहारकम् हेतुमाह समुञ्चितेति । लाघवादिति । अग्न्यनुवादेन विधाने अविधेयकोठावनिवेशेन विधेयतावच्छेदक लाघवादितार्थ: । अतः सिद्धं मन्वप्रानिप्रापकत्वम् । ननु माभूत् सायं होमे अग्रिदेवताविधिः । मन्त्रस्य तत्प्रापकत्वात् । प्रातहोंनेतु तत्प्रापकाभावादनिदेवता विधायकत्वमस्वग्रिहोत्रपदस्येतिचेन्न प्रातमेपि मूख्यौं ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातर्जुहोतीति श्रुतिप्रतिपादितमन्त्रे यत्सूयायच प्रजापतये च प्रातर्जुहोतीति विधिवाक्येच प्रागुक्तरीत्या समुचितसूर्य प्रजापतप्रोर्देवतात्वावगमात् तदवरुद्ध प्रातहोंमे देवतान्तराकाङ्क्षाविरहेण श्रर्देवतात्वविधानासम्भवात् । प्रक्रान्तसायं प्रातर्होमानुवादेनाग्निदेवतारूपगुणविधेः सायं होमांशे अनुवादत्वस्य दुष्परिहरत्वाच्च । तथाचोक्त भट्टपादैः । प्रातर्होमेपि तेनैष वह्निनैव विधीयते । एकदेशेऽपि च ज्ञानान्नानुवादोपगच्छति ॥ नचाविहित देवताकेषु होमेषु देवताविधायकमग्रिहोत्रं जुहोतीतिवाक्यं नतु सायं प्रातर्होम इति न तत्प्रख्यशास्त्रविरोध इति वाच्यम् । प्रक्रान्तहोममपहाय अन्यदीयगुणविधित्वे प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गात् । तदुक्तम् तन्त्रवार्त्तिककारः । अनूद्यचापि धात्वर्थं गुणः सर्व्वे विधीयते । नचानुवादः प्रकृतात् कर्मणोऽन्यत्र लभ्यते ॥
SR No.020071
Book TitleArthsangraha
Original Sutra AuthorN/A
AuthorShrikrushna Bhattacharya
PublisherShrikrushna Bhattacharya
Publication Year1821
Total Pages474
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy