SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिभाषाभाष्यवृत्त्योः बोधायनेन । अनेनैव न्यायेन अजस्रान्वारम्भणीयादि सर्व पुनरक्रियायां प्रथमाधानवदेव क्रियते । अग्नीषोमीयोपि न क्रियते प्राक्पुनस्सोमयागात् इति ॥ ३४. क-असोमयाजी ब्राह्मणः पूरोडाशद्रव्यकमनीषोमदैवत्यं यागं न कुर्यात् ॥ ह.-ब्राह्मणस्येति छेदः ‘आग्नेयो वै ब्राह्मणो देवतया स सोमेनेष्वाऽग्नीषोमीयो भवति ' इति श्रुत्यन्तरे दर्शनात् ॥ ३५. क-ब्राह्मणस्येत्यनुवर्तते इत्याशक्याह वर्णाविशेषेणेति । 'नासोमयाजी सन्येत् सन्नयेद्वा ' इति यदा त्रयो वर्णा असोमयाजिनस्सान्नाय्यं यागं कुर्वन्ति, तदैन्द्रानयागाभावः । अमावास्यायामसोमयाजिन ऐन्द्रामसान्नाय्ययोविकल्पः । पौर्णमास्यां त्वसोमयाजिनो ब्राह्मणस्याग्रीषोमीययागाभाव एव । तद्रहितापि पौर्णमासी पुरुषार्थ साधयति । द्वयोरेव हि यागयोः पौर्णमासीशब्दवाच्यत्वमस्ति ; प्रत्येकं नामयोगात् । तस्मादमीषोमीयरहितावेवेतरौ पुरुषार्थ साधयतः ।। ह.-ऐन्द्रामस्सन्नयतो वर्णाविशेषेण न भवति । सोमयाजिमात्रस्य न भवति ; किन्त, असोमयाजिन एवेत्यर्थः॥ ३६. क-स्वस्य कालः स्वकाल: स्वकालस्य विधौ, पितृयज्ञो नामामावास्यायामनारभ्याधीनः तस्य स्वकालो विधीयते । अनिष्टोमे प्रवृणक्तीतिवन्न कर्मसम्बन्धः । अत: 'तस्मापितृभ्यः पूर्वे धुः क्रियते' इति कालमात्रविधानादनङ्गं स्यात् ॥ For Private and Personal Use Only
SR No.020068
Book TitleApstambparibhasha Sutram
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherGovernment of Mysore
Publication Year1893
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy