SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिभाषाभाष्यवृत्त्योः. कालत्वादपराह्ने रात्रौ सन्ध्यायां वा स्यात्ताममावास्यामुपवसेत् । कुहूश्चेयम् ॥ ह.-यस्मिन्नहनि सूर्याचन्द्रमसोः परस्सन्निकर्षस्तस्मिन्नहन्यमावास्याम्पवसेदित्यर्थः॥ २५. क-श्वश्चन्द्रमसं न द्रष्टारो नेक्षितारः । चन्द्रादर्शनकालः प्रतिपत्पञ्चदश्योस्सन्धिः । स काल: श्वः पूर्वाले भवितेति वा पुरस्ताद्यागानुष्ठानात्पूर्व अमावास्यामुपवसेत् । सिनीवाली चैषा ॥ - ह.-श्वस्सन्निकर्ष इति वा पूर्वारुपवसेत् । पौर्णमास्यामुपवासवदेवानयोर्विषयो द्रष्टव्यः॥ २६. क-विधीयन्त इति विधानान्यङ्गानि । एकस्याधिकारिणः स्वर्गकामादे: पुरुषस्य स्वार्थ यजमानस्य यो व्यापारः स प्रकर्षण पुरुषार्थकारित्वान् प्रकरणं । तदेकफलत्वादेकं । तत्रैकस्सिन प्रकरणे ' दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत ' इति चोद्यमानानि विधीयमानानि समानाङ्गानि भवेयुः । अतो दर्शपूर्णमासयोः आमेयादीनां सर्वेषामुपदेशानां न परस्परं प्रकृतिविकारभावः॥ ह.-प्रकरणं फलवदपूर्व (प्रधानं समानविधानम् )। विधीयन्त इति विधानान्यङ्गानि । एकस्मिन् प्रकरणे चोद्यमानानि (आग्नेयादीनि) प्रधानानि समानाङ्गानि । तेषामन्योन्यं प्रकृतिविकृतिभावो नास्तीत्यर्थः । यद्वा-प्रधानान्येव समानविधानानि; न वैमृधः । वैभृधो विकृतिरेवेति व्याख्यायते ॥ For Private and Personal Use Only
SR No.020068
Book TitleApstambparibhasha Sutram
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherGovernment of Mysore
Publication Year1893
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy