SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४४ परिभाषाभाष्यवृत्त्योः. रक्षाँसि निरभजन् तस्मान्महायज्ञ: ' इति बहचश्रवणात् । वैश्वानरे हविरिदं जुहोमि ' इत्यत्रोपम्पर्शनम् ; पितृतृप्तिकरत्वान्मन्त्रस्य । 'शुन्धतां लोकः पितृषदनः । इति पैतृकम् । तथा 'पितृणाँ सदनमसि' इति । छेदनभेदनयोर्धात्वन्तरोपात्तयोरपि । [तच न रौद्रार्थ, उपयोक्ष्यमाणत्वात्तत्संस्कारस्य, संस्कारस्वभावत्वाच्च । “तुषैरेव रक्षांसि निरवदयते । अप उपस्पृशति मेध्यत्वाय ' इति । तथा नैऋतेष्टिकोपधाने ' मार्जयित्वोपतिष्ठते मेध्यत्वाय ' इति । न चात्राङ्गिभावो बोध्यते । 'केशानङ्गं वासश्चालभ्याप उपस्पृशेत् । इति । तथा नीवीं च परिधायाप उपस्पृशेत् ' इति । तस्मादपरितनप्रयोगाङ्गमेतदुदकोपस्पर्शनमवधारितम् । अतस्सर्वरौद्रे सर्वराक्षसे सर्वपित्रचे च निवर्तते । यत्र रौद्रादीनां नैरन्नर्येण वा करणं, रौद्रपित्रयाणां वा करणं, तत्रापि न प्रतिरौद्रं न प्रतिपित्रचं बोदकस्पर्शनम् ; अन्त एव सदुपस्पर्शनम् । पित्रचलिहरणोपस्पर्शनं कृत्वैव रौद्रं बलिहरणमुपस्पृशेत् । तथोपनयने प्रतिदिशं केशवपने वपनान्त एवोपस्पर्शनम् । निरसने धात्वन्तरोपात्तेपि भवति । यथा 'वेदिकरणानि तूष्णीं परास्याप उपस्पृश्य मन्त्रेणोपस्थानम् ' । धर्मशास्त्रविहितस्य केशाङ्गवाससामालम्भे उदकोपस्पर्शनस्य उपसङ्ग्रहार्थश्चकारः । यद्वा भरद्वानोपदिष्टखननपरिलेखन योरुदकस्पर्शनस्य ॥ १०. क-अग्नयः पात्राणि च यस्मिन्विहियन्ते स विहारः । उत्तरन ठदक्पाचे उपचारः अध्वर्वादीनां संचारः यस्य सः उत्तरतउपचारः कर्तव्यः ॥ ख-अतः पित्रये बलिहरणे नोपस्पर्शनं । कृत्वैव. ख-विपरिलेखन. For Private and Personal Use Only
SR No.020068
Book TitleApstambparibhasha Sutram
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherGovernment of Mysore
Publication Year1893
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy