SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः खण्डः. ३५ ध्ययनप्रतिषेधः श्रुतिबलीयस्त्वेनैव सिद्धः ; स्मार्तत्वादनध्ययनविधेः । अत इदं कूष्माण्डहोमादीनामविहितकालादीनां मन्त्रेप्वनध्ययनप्रतिषेधार्थम् । यद्वा--" पा ह वा एतच्छशानं । यच्छूद्रः । तस्माच्छूद्रसमीपे नाध्येतव्यं कदाचन " इति शास्त्रानध्ययनस्य श्रोतेषु कर्मसु निषेधार्थामदमारब्धम् ॥ ४१. क.-संस्कारस्यैकस्य कर्मणः प्रकाशनार्थमेक एव मन्त्रः भवेत् ॥ ह.-एकस्य कर्मण एको मन्त्र इत्योत्सर्गिको विधिः । . ४ या जाता ओषधयः” इति चतुर्दशभिरोषधीर्वपति इत्यूदाहरणम् । तत्रैकेन मन्त्रेणैकस्या ओषधेापः । तथा “देवाञ्जनमगन्यज्ञः” इति सप्त मन्त्राः षण्णामाहुतीनां प्रगीताः । तत्रान्यो [न्त्यो] विकल्पार्थः॥ ४२. क.-अपिशब्देनैकमन्त्रत्वमनुकृप्यते । संख्यायुक्तानि त्रिः प्रोक्षतीत्यादीनि । चेष्टायाः पृथक्तं चेष्टापृथक्तम् । चेष्टा आवृत्तिः। निर्वय॑न्त इति निर्वर्तीनि । क्रियावृत्त्या परिसमा]प्यानि । यथा अवहननं मुसलोद्यमननिपतनैर्निवय॑ते । एवं चेदनपेक्षमाणानि (!) येषामेक एव मन्त्रः॥ ह.-एकमन्त्राणीत्यनुवर्तते । संख्यायुक्तानि । चेष्टाया भेदश्चेष्टापृथक्तम् । तेन निवर्तन्त इति चेष्टापृथक्तनिर्वानि । संख्यायुक्तानि च चेष्टापृथक्तनिर्वर्तीनि च । संख्यायुक्तानां “त्रिः प्रोक्षणम् ” उदाहरणम् । तथा “ द्विरवद्यति ” इति । चेष्टापृथक्तनिवर्तिनामवघातः । मुसलस्योद्यमननिपतनैर्बहुभिः 1चेष्टायै हेतुः पृथक्त्वम् चेष्टापृथक्त्वम्, For Private and Personal Use Only
SR No.020068
Book TitleApstambparibhasha Sutram
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherGovernment of Mysore
Publication Year1893
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy