SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः खण्डः. ३८. क.-प्रवरादीनां वाक्यैकदेशत्वेन अनुष्ठयार्थप्रकाशकत्वेन च मन्त्रत्वं प्राप्तं पर्युदस्यति । अहे बुध्रिय मन्त्रं मे गोपायेति ऋग्यजुस्सामसु मन्त्रशब्दप्रयोगात्, स्वाध्यायपाठसमानातानां ऋग्यजुस्सामप्रसिद्धेः, अतस्तत्राम्नाता एव मन्त्राः । अनाम्नातास्त्वमन्त्राः अनानातास्ते के । यथेति । तेषां विविच्य प्रतिपादनायाह प्रवरोहेत्यादि । प्रवरो, भार्गवच्यावनाप्नवानौर्वजामदग्न्येति । उहः, सूर्याय जुष्टं निर्वपामीत्यादि । नामधेयग्रहणं । गृह्यत इति ग्रहणम्। द्विविधं नामधेयं ग्राह्यं [गाडं], नक्षत्रनामधेयं च । पुत्रस्य नाम दधातीत्यादिना कृतं ग्रामं [गायं] तत्र भवति । नक्षत्रनाम च, आशस्तेियं यजमानो रोहिणः। इतिकरणादेतावतामेव मन्त्रत्वम् , न त्वेते समानविकरणादयः । यजमान इत्यादीनां तु, इति ऋचाब्दा (१) योन्यामुत्पन्नं सामोत्तरयोर्गायमानमन्त्र एव । यत्तु यजुर्वेदाश्रयमेषाभुपांशुत्वादि न तस्यामु[नुत्पत्तिः॥ ह.-अनाम्नाता वेदे अपठिताः। ते मन्त्रा न भवन्ति । यथेत्युदाहरणनिर्देशः। प्रवर आर्षेयवरणं, आङ्गिरसायास्येत्येवमादि। ऊहो, जुष्टं निर्वामीत्यादि । नामधेयग्रहणं, आशास्तेयं यजमानो देवदत्त इति । अमत्रत्वाचैषामन्यथाकरणे मन्त्रभ्रेषप्रायश्चित्ते न स्तः। यस्तु वेदाश्रय उपांशुत्वादिः तस्यानिवृत्तिः ॥ ३९. क.-चशब्देन अमन्त्रत्वमनुकृष्यते । · रथशब्देन महेन्द्रस्य स्तोत्रमुपाकरोति ' इति रथदुन्दुभिशब्दयोरमन्त्रत्वं । भिन्नसूत्रकरणं, पूर्वेषां मन्त्रैकदेशत्वात् मन्द्रस्वरः, रथादिशब्दस्यामन्त्रत्वाद्यथाप्राप्तस्वरः ॥ 1मन्त्रभ्रेषप्रायश्चित्तम् न भवति. तस्य निवृत्तिः, For Private and Personal Use Only
SR No.020068
Book TitleApstambparibhasha Sutram
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherGovernment of Mysore
Publication Year1893
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy