________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
आयासं रुद्धं पल्लवेहिं मूलेहिं तहय पायालम् ।
तुच्छ फलं वड बीयं पुन्नं गरुयं न ववसाओ ॥ १७५ ॥ वडविडवि किं न लज्जसि गिरुओ तुच्छं फलं समप्पन्तो। कोहलिया दुच्छलिया गिरुअं गिरुअं फलं देइ ॥ १७६ ॥
(इति वटान्योक्तयः) अथ मधूकस्य । तत्तेजस्तरणेर्निदाघसमये तद्वारि मेघागमे
तज्जाड्यं शिशिरे मदेकशरणैः सोढं पुरा यैदलैः । आयातस्त्वधुना फलस्य समयः किं तेन मे तैर्विना
स्मृत्वा तानि शुचेव रोदिति गलत्पुष्पैर्मधूकद्रुमः ॥ १७७ ।। यदास्ति पात्रं न तदास्ति वित्तं यदास्त वित्तं न तदास्ति पात्रम् । इत्थं हि चिन्तापतितो मधूको मन्येऽश्रुपातै रुदनं करोति ।। १७८ ॥ मूलादेव यदस्य विस्तृतिभरच्छायाप्यनन्यादृशी
ते यस्य प्रसवाः स्वमञ्जुलरसैरानन्दयन्ति प्रजाः । स्नेहं च प्रकटीकरोति परमं भूयः फलानां गुणै
हित्वैकैकगुणांस्तरून्भज सखे तस्मान्मधूकद्रुमम् ॥ १७९ ॥ अहलो पत्तावरिओ फलकाले मूढ पत्ताई । इणिकारणि रे विडबि महूय तुह एरिसं नाम ॥१८०॥
(इति मधूकान्योक्तयः) अथेक्षोरन्योक्तयः। कान्तोऽसि नित्यमधुरोऽसि रसाकुलोऽसि
किंचासि पञ्चशरकार्मुकमद्वितीयम् । इक्षो तवास्ति सकलं परमेकमूनं
यसेवितो वहसि नीरसतां क्रमेण ॥ १८१ ॥ परार्थे यः पीडामनुभवति भङ्गेऽपि मधुरो
यदीयः सर्वेषामिह खलु विकारोऽप्यभिमतः ।
For Private And Personal Use Only