SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org अन्योक्तिमुक्तावली । करान्प्रसार्य सूर्येण दक्षिणाशावलम्बिना । न केवलमनेनात्मा दिवसोऽपि लघूकृतः ॥ ३८ ॥ यच्छञ्जलमपि जलदो वल्लभतामेति सकललोकस्य । नित्यं प्रसारितकरः करोति सूर्योऽपि परितापम् ॥ ३९ ॥ Acharya Shri Kailassagarsuri Gyanmandir उदेति सविता ताम्रस्ताम्र एवास्तमेति च । संपत्तौ च विपत्तौ च महतामेकरूपता ॥ ४० ॥ निमीलनाय पद्मानामुदयायाल्पतेजसाम् । तमसामवकाशाय व्रजत्यस्तमहो रविः ॥ ४१ ॥ एतावत्सरसि सरोरुहस्य कृत्यं भित्त्वाम्भः सपदि बहिर्विनिर्गतं यत् । सौरभ्यं विकसनमिन्दिरानिवासस्तत्सर्वं दिनकरकृत्यमामनन्ति ॥ ४२ ॥ देवो हरिर्वहतु वक्षसि कौस्तुभं तं मन्ये न काचन पुनर्द्युमणेः प्रतिष्ठा । यत्पादसंगतितरङ्गितसौरभाणि धत्ते स एव शिरसा सरसीरुहाणि ॥ ४३ ॥ यो भृङ्गानां क्रियतां पद्मकोशकारागारे मोक्षमर्कश्चकार । तन्मालिन्यादेव नोपेक्षतेऽसौ प्रायः साधुः सर्वलोकोपकारी ॥ ४४ ॥ २ अतिविततगगनसरणिप्रसरणपरिमुक्तविश्रमानन्दः । मरुदुल्लासितसौरभ कमलाकर हासकृद्रविर्जयति ॥ ४५ ॥ उदयमयते दिङ्मालिन्यं निराकुरुतेतरां नयति निधनं निद्रामुद्रां प्रवर्तयति क्रियाः । रचयतितरां स्वैराचारप्रवर्तनकर्तनं बत बत लसत्तेजःपुञ्जो विभाति विभाकरः ॥ ४६ ॥ आगत्य संप्रति वियोगविसंस्थुलाङ्गी मम्भोजिनीं कचिदपि क्षपितत्रियामः । एतां प्रसादयति पश्य शनैः प्रभाते तन्वति पादपतनेन सहस्ररश्मिः ॥ ४७ ॥ For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy