SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 नामानि श्रीअनु० 11 निवेशेषु निवेश्यमानेषु सत्सु अमांगलिकशब्दपरिहारार्थ असिवा सिवेत्युच्यते, अन्यदा त्वनियमः, अग्निः शीतला विषं मधुरकं, हारि.वृत्ती कलालगृहेषु अम्ल स्वादु मृष्टं न त्वम्लमेव सुरासंरक्षणायानिष्टशब्दपरिहारः, इदं सर्वदा-जो लत्तए इत्यादि, जो रक्तो लाक्षारसेन स एवारक्तः // 72 // प्राकृतशैल्या अलक्तः, यदपि-च लाबु 'ला आदान' इति कृत्वा आदानार्थवत् सेत्ति तदलाबु, यः शुभकः शुभवर्णकारी 'से' त्ति असौ कुसुंभकः, आलपन्तं लपन्तं अत्यर्थ लपन्तं असमंजसमिति गम्यते विपरीतभाषक इत्युच्यते-विपरीतश्चासौ भाषकश्चेति समासः अभाषक इत्यर्थः, आहेर्द नोगौणान्न भिद्यते?, न, तस्य प्रवृत्तिनिमित्तकतज्जभावमात्रापोक्षतत्वात् , इदं तु प्रतिपक्षधर्माध्यासमपेक्षत इति भिद्यत एव / से किं पाहणत्ताए, पाहणता एवं, चंपकप्रधानं वन-चंपकवनं अशोकप्रधानं अशोकवनमित्यादि, शेषाणि वृक्षाभिधानानि प्रकटार्थानि, आहेदमपि गौणान्न भिज्जते, न, तत्तन्नामनिबंधनभूतायाः क्षपणादिक्रियायाः सकलस्याधारभूतवस्तुव्यापकत्वादशोकादेश्च वनाव्यापकत्वादुपाधिभेदसिद्धयुज्जत इति, 'से कि तं' अणादिसिद्धश्वासावन्तश्चेति समासः, अमनमन्तस्तथा वाचकतया परिच्छेद इत्यर्थः, तत्किमनादिसिद्धान्तेनानादिपरिच्छेदेनेत्यर्थः, धर्मास्तिकाय इत्यर्थः, आदि पूर्ववत् अनादिः सिद्धान्तो वाऽस्य सदैवाभिधयस्य तदन्यत्वायोगात् , अनेनैव चोपाधिना गौणाझेदाभिधानेऽप्यदोष इति / से किं तं नामेणं ? पितुपितुः-पितामहस्य नाम्ना उन्नामित-उरिक्षप्तो यथा बंधुदत्त इत्यादि / 'से किं तं अवयवेणं, | अवयवः-शरीरैकदेशः परिगृह्यते तेन शंगीत्यादि(*१८३-१४२)कटार्थ, तथा परिकरबन्धेन भटं जानीयात् , महिलां निवसनेन,सिक्थुना द्रोणपाकं, | कविं चैकया गाथया, तत्तदप्यधिकृतावयवप्रधानमेवेति भावनीयमतस्तेनैवोपाधिना गौणाद्भिन्नमेवेति / से किं तं संयोएण?. संयोएणं संयो-DL. // 72 // गः-संबंधः, स चतुर्विधः प्रज्ञप्तः, तद्यथा 'द्रव्यसंयोग' इत्यादि सूत्रसिद्धमेव, नवरं गावः अस्य संतीति गोमान् , छत्रमस्यास्तीति छत्री, हलेन व्यवहरतीति हालिकः, भरते जातः भरतो वाऽस्य निवास इति वा 'तत्र जातः' (पा.४-३-२५) 'सोऽस्य निवास' इति (पा.४-३-४९) वा %95% For Private and Personal Use Only
SR No.020064
Book TitleAnuyogdwar Sutram Tika
Original Sutra AuthorHaribhadrasuri
Author
Publisher
Publication Year
Total Pages128
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy