SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकान्तवादप्रवेश: ४३ WWW च विशेषबुद्धिरिह । इति यथोदितबुद्धिशब्दद्वप्रवृत्तिः इति । तथा चोक्तम् " वस्तुत एव समानः परिणामो यः स एव सामान्यम् । असमानैवस्तु विशेषो वस्त्ववमनेकरूपं तु ॥ १ ॥ ततश्च तद्यत एव सामन्यरूपम्, अत एव विशेषरूपम्, समानपरिणामस्यासमान परिणामाविनाभूतत्वात् । यत एव 7 विशेषरूपम् अत एव सातान्यरूपम् समानस्यापि समानपरिणामविनाभूतत्वाद् इते । न चानयोर्विरोधः, समानासमानपरिणामयोरुभयोरपि स्वसंवेदनस्योभयरूपत्वाद्; उभयरूपतायाश्च व्यवस्थापितत्वात् ॥ " यश्वोक्तम् - " सामान्यविशेषरूपत्वे सति वस्तुनः संकललोकप्रसिद्ध संव्यवहारनियमोच्छेदप्रसङ्गः" इत्यादि - तदपि जिनमतानभिज्ञतासूचकमेव केवलं, न पुनरिष्टार्थप्रसाधकम् इति । न हि ' मधुरकलडुकादिविशेषानर्थान्तरम् - सर्वथैकस्वभावम्एकम् - अनवयवं सामान्यम्' इत्यभिदधंति जैनाः । अतः किमु च्यते ? " न विषं विषमेव, मोदकाद्यभिन्नसामान्याव्यतिरेकाद् ” इत्यादि । किं तर्हि ? | " समनिपरिणामः स च भेदाविनाभूतत्वात् । न य एव विषादभिन्नः स एव मोदकादिभ्योऽपि सर्वथा तदेकत्वे समानयोगात् । , स्यादेतत् समानपरिणामस्यापि प्रतिविशेषेमन्यत्वादसमानेपरिणामवत् तद्भावानुपपत्तिः, इति । १. घटादेः । २. मृदादिः । ३. ऊर्ध्वत्वादिः । ४. सामान्यविशेषोमरूपम् । ५. मृदाद्यात्मतया । ६. ऊर्ध्वादिरूपापेक्षया । ७. समानासमानयोः परिणामः | ८. वस्त्वनुत्पत्तिरूप इष्टोऽर्थः । ९. विष । १०. सामान्यमित्याहुजैना: । ११ घटशरावादि । १२ यथाऽसमान परिणामस्य समानपरिणामभावानुपपत्तिरेवं समानपरिणामस्य समान परिणामानुपपत्तिः । उभयोरप्यन्यत्वा विशेषात् || For Private And Personal Use Only
SR No.020042
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorPrabhudas Bechardas Parekh
PublisherHemchandracharya Sabha
Publication Year
Total Pages71
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy