SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । अनेकान्तवादप्रवेश: www.mmmww.inwwwwwwwwwwwwwwwwwwwwwww गम्या एव भागाः' इत्यवगमे निवेश्यतां चित्तम् , इति । अलं प्रसङ्गेन । एतेन नित्यव्यापि (त्यनिरवयवाऽक्रिययाप्य०) निर्देश सामान्यवृत्तिरपि प्रत्युक्ता आह-अनुभवसिद्धत्वात् सामान्यस्य न युज्यते सहृदयतार्किकस्य तत्प्रतिक्षेपेणात्मानमायासयितुम् , आयासस्य निप्फलत्वात् ; तथाहि-यदि 'सनातनं-वस्तुसद-व्यापि एकम्अनवयवं' सामान्यवस्तु न स्यात् , न तदा देशकालस्वभावभेदभिन्नेषु घटाशरावो (ष्टिकोदञ्चनादि)वञ्चनालिन्तरादिषु(?) विशेषेषु सर्वत्र ‘मृद्, मृद्,' इत्यभिन्नौ बुद्धिशब्दो स्याताम् । न खलु हिमतुवारकरकोदकाङ्गारमुर्मुरज्वालानलझञ्झामण्डलिकोत्कलिकापवनखदिरोदुम्बरिकादिषु अत्यन्तभिन्नेषु बहुषु वि. शेषेष्वेकाकारा बुद्धिर्भवति, नाप्येकाकारः शब्दः प्रवर्त्तते, इति, अतोऽस्थ यथोक्ताभिन्नबुधिशब्दद्वयप्रवृत्तिनिबन्धनस्य वस्तु सतः सामान्यस्य सत्त्वमाश्रयितव्यम् , इति । - अत्रोच्यते-न खल्वस्माभिर्यथोक्तबुद्धिशब्दद्वयप्रवृत्तिनिबन्धनं निषिध्यते । किं तर्हि ?। एकादिधर्मयुक्तं परपरिकल्पितं सामान्यम् , इति । तच्च यथा विशेषवृत्त्ययोगेन न घटां प्राञ्चति, तथा निदर्शितमेव । आह-किं पुनर्न यथोक्तबुद्धिशब्दद्वयप्रवृतिनिबन्धनम , ... इति । १. नहि निभीगे परमाणौकार्यस्य यणुकक्वचिद्भावः काचिनेति स्वदशनस्थित्याऽप्यवगमे निवेश्यतां चित्तम् । २. एकसामान्यवृत्तिनिराकरणेन । ३. नित्यस्यैकस्वभावतया कालभिन्नासु व्यक्तिषु वृत्त्ययोगः । व्यापिनः सर्वगतत्वेन निर्देशस्य देशाभावेनेति भावनीयम् । ४. विशेषेषु । ५ नित्यं । ६. परमार्थसत् । ७. विरलामिकणा मुर्मुरः ८. मूलाग्निविच्छिन्नज्वाला । - ९. जातिभेदापेक्षया। १०. मृमृदित्यादि । ११. मृमृदित्यादिरूपतया । For Private And Personal Use Only
SR No.020042
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorPrabhudas Bechardas Parekh
PublisherHemchandracharya Sabha
Publication Year
Total Pages71
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy