SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकान्तवादप्रवेशः २३ तदेवावर्तते, इत्वनवस्था, ( चक्रकं वा )। - अथानान्तरभूतः, स विद्यमानः ? अविद्यमानो वा ? यदि विद्यमानः, कथं क्रियते ? करणे वाऽनवस्थाप्रसङ्गः । अथाविद्यमानः, व्याहतमेतत् , स ततोऽनर्थान्तरभूतोऽ. विद्यमानधेति, करणे वाऽनित्यतापत्तिरिति; तथाहि-तस्मिन् क्रियमाणे पदार्थ एव कृतः स्यात्, तदव्यतिरिक्तत्वात्तस्य । अथ माभूदेष दोषः, 'न क्रियते' इत्याश्रीयते, न तर्हि स तस्य सहकारी, अकिञ्चित्करत्वाद्, भावे वाऽतिप्रसङ्गः, इति; तथाहि-यदि कञ्चन विशेषमकुर्वन्नपि स तस्य सहकार्यभ्युपगम्यते, सर्वभावानामेव तत्सहकारित्वप्रसङ्गः, तद्विशेषाकरणेनाविशेषाद , इति व्यर्था सहकारिकल्पना ॥ अथोच्यते-एवंभूत एव तस्य वस्तुनः खभावः, येनाविशे पकारकमा प्रतिनियतमेव सहकारिणमपेक्ष्य कार्य जनयति,इति। एतदपि मनोरथमात्रम्, विकल्पानुपपत्तेः ताद्ध यदाभीष्टसहकारिसन्निधौ कार्य जनयति, तदाऽस्यानन्तरादितसहकार्यपेक्षालक्षणः स्वभावो व्यावर्तते ? न वा ? इति वक्तव्यम् यदि व्यावर्तते, अनित्यत्वत्वप्रसङ्गः, स्वभावव्यावृत्तौ स्मावपतोऽपि तदव्यतिरेकेण तद्वदेव निवृत्तेः । अथ न व्यावरते, १. सहकारिणा विशेषः क्रियते । २. विद्यमानत्वाशिषण भूयोभयः करणम् , इत्यनवस्था । ३. विद्यमानाव्यतिरिक्तो दिमान एन । ४. करणे वा व्यतिरिक्तस्याविद्यमानस्यानित्यतापात्तबरला, याद तस्मिन् व्यतिरिक्त विद्यमाने विशेष क्रियमाणे पदार्थ व कृतः स्यात् । ५. पदार्य । ६. विशेषस्य । ७. सहकारिणो विशेषः । ८. आलाकादिकम् । ९. विशानादि । १०. वस्तुनः । ११. अकिञ्चित्करसहकाार । For Private And Personal Use Only
SR No.020042
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorPrabhudas Bechardas Parekh
PublisherHemchandracharya Sabha
Publication Year
Total Pages71
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy