SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकान्तवादप्रवेशः कश्चिद्विशेषः इति । ततश्च दधि खादेति चोदितः उष्ट्रमपि , खादेत् ॥ अथास्त्यतिशयः कश्चिद्, येन भेदेन वर्तते । स एव दधि सोऽन्यत्र नास्तीत्यनुभयं परम् ॥ १ ॥ अधानयोः कश्चिदतिशयोऽस्ति, येनायं तथानोदितः क्षीरविकार एव प्रवर्तते, नान्यत्र । एवं तर्हि 'ल एव' अतिशयो ऽर्थक्रियार्थिप्रवृत्तिविषयः तत्फलविशेषोपादानभावलक्षितखभावं हि वस्तु 'दधि' इति । 'स' च तादृशैः स्वभावः, 'अन्यत्र नास्तीति' प्रवृश्यभावादर्थिनः । तस्मान्नोभयरूपम् ; इत्येकान्तवादः || इति तृतीयपूर्वपक्ष: ॥३॥ एवमभिलाप्यानभिलाप्यमपि विरोधबाधितत्वादेवानुद्घोष्यम् । तथाहि अभिलप्यते यत् तदाभलाप्यम्, एतद्विलक्षणं वानभिलाप्यम् इतेि । ततश्च यदि तदभिलाप्यम्, न तर्हि अनभिलाप्यम्; अनभिलाप्यं चेत्, न तर्ह्यभिलाप्यम्; इति, एकस्यानेकविरुद्धधर्माभावात् ॥ इति चतुर्थपूर्वपक्ष: ॥ ४ ॥ किं च; - विरोधिधर्माध्यासितस्वरूपत्वाद्वस्तुनोऽनेकान्तवादिनो मुक्त्यभावप्रसङ्गः ; तथाहि - एतदात्माङ्गनाभवनमणिकनकधनधान्यादिकमनात्मकर्मे, अनित्यम्, अशुचि, १. तत्साध्या या अर्थक्रिया, तया अथ यः पुरुषः । २. दध्नैव साध्यवात् तत्फलावेशेषः, स चासौ फलविशेषथ, तस्योपादानभावो हेतुभावः, तेन लक्षितः स्वभावो यस्य वस्तुनः, तदेव दधि, इति कृत्वा । ३. अनन्तरोक्तदधिस्वभावः । ४. उष्ट्रे, कुतः ? दध्यर्थिन उष्ट्रे प्रवृत्त्यभावात् । ५. परे परिकल्पितान्वयाख्यात्मशून्यम् । For Private And Personal Use Only
SR No.020042
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorPrabhudas Bechardas Parekh
PublisherHemchandracharya Sabha
Publication Year
Total Pages71
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy