SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकान्तवादप्रवेशः न तु द्रव्यम्; इति नित्यमभ्युपगम्यते ' ॥ इयमप्ययुक्ता, यस्माद्, एषाप्यत्र नित्यता न संभवति, पर्यायव्यतिरिक्तस्य द्रव्यस्यासिद्धेः; तथाहि - न पर्यायव्यतिरिक्तं द्रव्यमस्ति तथानुभवाभावात्; व्यतिरिक्तभावे वा, अनेकरूपैकवस्तुवादहानिप्रसङ्गः । तथा चोक्तम् पर्याया भेदिनो नित्यं द्रव्यं स्यात्तत्स्वरूपवत् । स्याद्वादविनिवृत्तिश्च नानात्वे संप्रसज्यते ॥ १ ॥ व्यतिरिक्ताव्यतिरिक्तपक्षस्तु विरोधाघ्रातत्वादनुद्घोष्य एव ॥ इति द्वितीयपूर्वपक्ष: ॥ २ ॥ पैतेन सामान्यविशेषरूपमपि प्रतिक्षिप्तमवगन्तव्यम् । तथाहि - एकं सामान्यम्, अनेके विशेषाः; तथा नित्यं सामान्यम्, अनित्या विशेषाः; तथा निरवयवं सामान्यम्; सावयवा विशेषाः; तथा अक्रियं सामान्यम्, सक्रिया विशेषाः; सर्वगतं सामान्यम्, असर्वगता विशेषाः । ततश्च तद्यदि सामान्यरूपम्, कथं विशेषरूपम् ? विशेषरूपं चेत्, कथं सामान्यरूपम् ? इति । किं चः - सामान्यविशेषोभयरूपत्वे सति वस्तुनः सकललोकप्रसिद्धसंव्यवहारनियमाच्छेदप्रसङ्गः ; तथाहि - विषमोदकक्षीरकदिव्यत्याभिन्नं नानास्वभावमेकं सामान्यं वर्तते । ततश्च न विषं विषमेव मोदकाद्यभिन्न सामान्याव्यतिरेकात्; नापि मोदको मोदक एव, विषाभिन्नसामान्याभेदात् ॥ १. न हि पिण्डशिवकादिव्यतिरिक्तं मृ-हव्यमनुभूयते । २. पर्यायेभ्यो द्रव्यस्य । ३. पर्यायस्य तावत् । ४. पर्यायद्रव्ययोः । ५. नित्यानित्यनिराकरणेन । ६. श्वेताश्वः । ७. आदिशब्दाद्द्वजादिः । ८. भेदः । ९. सत्त्वादि । १०. मोदकस्य । ११. इतरेतराभिन्नसामान्यभेदेन । For Private And Personal Use Only
SR No.020042
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorPrabhudas Bechardas Parekh
PublisherHemchandracharya Sabha
Publication Year
Total Pages71
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy