________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३
अनेकान्तवादप्रवेशः न पुनः शब्दादेव, अप्रतिपन्नविकल्पस्य कस्यचित्प्रवृत्त्यदर्शनात् । सङ्केतवशाच्च शब्दादर्थे प्रवृत्तिः, तस्य च विकल्पमन्तरेणान्यत्र कर्तुमशक्यत्वाद्, इति; इतीत्थमेवेदमङ्गीकर्तव्यम्, इति । ___एतदप्ययुक्तम्, विकल्पप्रतिपत्तावपि दृश्यविकल्प्याथैकीकरणाभावतः, प्रवृत्त्ययोगाद्, एकीकरणाभावश्च दृश्यविकल्प्यार्थयोरत्यन्तभेदवादिनः कथञ्चिदपि समानत्वानुपपत्तेः, एकस्य चोभयानुभवितुरभावात् ।
किञ्च-स खल्वेकीकुर्वन् तदा द्वयमपि भेदेन प्रतिपद्यैकीकुर्याद् ? अप्रतिपद्य वा ? । यद्याद्यः पक्षः, ततो भेदेनैवोभयप्रतिपत्तेः किमेकीकरणेन ? ।
१. न तु शब्दाद्वस्त्वेव प्रतिपद्य प्रवर्तते । २. विशेषमाह । ३. बोद्धैः । ४. अपोहम् । ५. विशेषे । ६. अशक्यत्वञ्च विशेषे सङ्केतस्य वस्तूनामानन्त्यात् प्रतिवस्तु समवायकरणेन व्यवहारानुपयोगात् सङ्केतस्य । ७. विकल्पविषय एव शब्दः, इति शब्दात् । ८. स्वलक्षणविकल्पाधिरुढसामान्यरूप । ९. दृश्ये । १०. सतस्तव । ११. साधर्म्य चैकीकरणनिमित्तं । १२. समानत्वं सदपि उभयो: समानयोर्ग्रहणे गृह्यते न च तयोरेकः कश्चिद् ग्रहीताऽभ्युपगम्यते परैः । १३. दृश्यविकल्प्यार्थद्वयम् । १४. ज्ञात्वा । १५. असङ्कीर्णत्वेन । १६. योजनाभावान्न किञ्चिदित्यर्थः।
For Private and Personal Use Only