SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकान्तवादप्रवेशः । सकललोकप्रसिद्धसंव्यवहारनियमोच्छेदप्रसङ्गः' इत्यादि, -तदपि जिनमतानभिज्ञतासूचमकेव केवलं, न पुनरिष्टार्थप्रसाधकम्, इति । न हि 'मधुरकलड्डुकादिविशेषानर्थान्तरं सर्वथैकस्वभावं एकं अनवयवं सामान्यम्' इत्यभिदधति जैनाः। अतः किमुच्यते? 'न विषं विषमेव, मोदकाद्यभिन्नसामान्याव्यतिरेकाद्' इत्यादि। किं तर्हि ? । समानपरिणामः, स च भेदाविनाभूतत्वात् । न य एव विषादभिन्नः स एव मोदकादिभ्योऽपि, सर्वथा तदेकत्वे समानत्वायोगात् । स्यादेतत्, समानपरिणामस्यापि प्रतिविशेषमन्यत्वादसमानपरिणामवत् तद्भावानुपपत्तिः, इति । एतदप्ययुक्तम्, सत्यप्यन्यत्वे समानाऽसमानपरिणामयोर्भिन्नस्वभावत्वात्; तथाहि-समानधिषणाध्वनिनिबन्धनस्वभावः समानपरिणामः, तथा विशिष्ट १. वस्त्वनुत्पत्तिरूप इष्टोऽर्थः । २. विष । ३. सामान्यमित्याहुज॑नाः । ४. घटशरावादि । ५. यथाऽसमानपरिणामस्य समानपरिणामभावानुपपत्तिरेवं समानपरिणामस्य समानपरिणामानुपपत्तिः । उभयोरप्यन्यत्वाविशेषात् । ६. परिणामस्य । ७. यतः खलु शरावादिषु मृन्मृदित्यविशेषेण ६ - - For Private and Personal Use Only
SR No.020041
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorHemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2007
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy