SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकान्तवादप्रवेशः ६३ अत्यन्तभिन्नेषु बहुषु विशेषेष्वेकाकारा बुद्धिर्भवति, नाप्येकाकारः शब्दः प्रवर्तते, इति, अतोऽस्य यथोक्ताभिन्नबुद्धिशब्दद्वयप्रवृत्तिनिबन्धनस्य वस्तुसतः सामान्यस्य सत्त्वमाश्रयितव्यम्, इति । अत्रोच्यते-न खल्वस्माभिर्यथोक्तबुद्धिशब्दद्वयप्रवृत्तिनिबन्धनं निषिध्यते । किं तर्हि ? । एकादिधर्मयुक्तं परपरिकल्पितं सामान्यम्, इति । तच्च यथा विशेषवृत्त्ययोगेन न घटां प्राञ्चति, तथा निदर्शितमेव । __ आह-किं पुनर्यथोक्तबुद्धिशब्दद्वयप्रवृत्तिनिबन्धनम्, इति । उच्यते-अनेकधर्मात्मकस्य वस्तुनः समानपरिणामः, इति । न चात्र सामान्यवृत्तिपरीक्षोपन्यस्तविकल्पयुगलकप्रभवदोषसम्भवः, समानपरिणामस्य तद्विलक्षणत्वात्, तुल्यपरिच्छेद्यवस्तुरूपस्य समान १. जातिभेदापेक्षया । २. मृद्-मृदित्यादि । ३. मदमदित्यादिरूपतया । ४. सत्त्वज्ञेयत्वादि ।५. घटशरावादेः । ६. मृन्मृदित्यभिन्नबुद्धिशब्दद्वयप्रवर्तकः । ७. समानपरिणामे । ८. देशकात्य॑वृत्तिरूपसामान्यानन्त्यादीनां। ९. एकादिधर्मकसामान्यविलक्षणत्वात् । १०. वैलक्षण्यमेवाह । For Private and Personal Use Only
SR No.020041
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorHemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2007
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy