SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकान्तवादप्रवेशः च सति स्वभावयोर्धर्मत्वादनुभवस्य च धर्मित्वान्मिथो भेदाभेदोभयविकल्पप्रभवो दोषोऽनिवार्यते, इति; मृग्यतां त्राणार्थमुपायः । परिकल्पितोभयस्वभावाभ्युपगमक वचोपायसद्भावात् प्रयासमात्रफलोऽभीष्ट फलविकलो दोषाशनिः, इति चेत् ? न, प्रचण्डवेगमहास्त्रोतःप्रवाहापहियमाणकुशकाशावलम्बनप्रायत्वादुपन्यस्तोपायस्य; तथाहि-परिकल्पितोभयस्वभावताभ्युपगमेन परमार्थतोऽसौ न विजातीयभेदग्रहणस्वभावो, नापि सजातीयभेदग्रहणापटु स्वभावः, इति । अतोऽनुभवस्य स्वभावरहितत्वादननुभवत्वप्रसङ्गः, इति । तदिदं 'पिशाचभयात् पितृवनाश्रयणमायातम्' इति धिग्, अहो दारुणं तमः । अपरस्त्वाह-यथैवाक्रमवति सामान्यविशेषोभयस्वभावे वस्तुनि तथाविधक्षयोपशमाभावान्नावग्रहकाल एव भवतः सतामपीहादिगोचराणां धर्मा १. अभ्युपगम एव कवचः । २. निर्विकल्पः । ३. हे जैन! तव मते । ४. अवग्रहणमवग्रहः, अनिर्देश्यसामान्यरूपमात्रार्थग्रहणमित्यर्थः । तथा ईहनमीहा, सद्भूतार्थपर्यालोचनरूपा चेष्टा ईहा, ईह चेष्टायामिति वचनात् । कि मुक्तं स्यात् ? अवग्रहा-दुत्तरकालमपा( वा )यात्पूर्व For Private and Personal Use Only
SR No.020041
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorHemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2007
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy