SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकान्तवादप्रवेशः किञ्च-यद्यसौ सजातीयासजातीयव्यावृत्तवस्तुस्वलक्षणप्रभवो निर्विकल्पकानुभवः; इति, अथ कस्मात्तत्पृष्ठ भावी तत्सामर्थ्यजन्मा विजातीयभेदग्राहकविकल्पवत्सर्वथा सजातीयभेदग्राहकविकल्पो न भवति ? न च भवति, तथानुभवाभावात्; तस्मात्समानासमानपरिणामविशिष्टवस्तुप्रभव एवासावपि प्रतिपत्तव्यः, युक्तियुक्तत्वात् । स्यादेतद्-कुशलमायाकारविनिर्मितव्यापारविनियुक्तेषु सर्वथा विलक्षणस्वभावमायागोलकेषु विभिन्ननिर्विकल्पानुभवानुभूयमानेष्वपि विजातीयभेदग्राहकविकल्पवन्न सजातीयभेदग्राहकविकल्पसंभवो दृष्टः, सादृश्यात्, एवमिहापि भविष्यन्ति । सत्त्वासत्त्वपरिच्छेदे सा कल्पना वस्तुनि समुत्पन्ने वेत्यादिविकल्पैरुक्तत्वात् तस्मान्नत्वतः परमतेऽविकल्पस्यैव सामान्यविशेषात्मकत्वम् । ७. बौद्धमते । ८. हेत्वयोगश्च स्वलक्षणादनुत्पत्तेरित्यादिग्रन्थेन पूर्वमेवास्माभिर्विकल्पज्ञानाभावस्य प्रतिपादितत्वात् । १. यथा निर्विकल्पाद्विजातीय-पटादि-भेद-ग्राहको विकल्प: स्याद् एवं सजातीयेभ्यो घटेभ्योऽपि भेदग्राहको घटविकल्पः कुतो न भवति ? २. निर्विकल्पानुभवः । ३. मायागोलाहिते भिन्नेनाभिन्नेनाविकल्पेनानुभूयमाना वर्त्तते । ४. गोलकेभ्यो विजातीयघटादयः । ५. गोलकानामेव भेदग्राहि । For Private and Personal Use Only
SR No.020041
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorHemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2007
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy