SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६ अनेकान्तवादप्रवेशः इत्यादि । तस्माद् 'अन्वयाविनाभूतो व्यतिरेकः, व्यतिरेकाविनाभूतश्चान्वयः, इति' वस्तुस्वभावः, तथा चोक्तम्'नान्वयः सहभेदित्वान्न भेदोऽन्वयवृत्तितः । मृद्भेदद्वयसंसर्गवृत्तिजात्यन्तरं घटः ।। १ ।।' इत्यादि । तस्माद् तद् यत एव नित्यम्, अत एवानित्यम्; द्रव्यात्मना नित्यत्वात्, तस्य चाभ्यन्तरीकृतपर्यायत्वात् । यत एव चानित्यम्, . अत एव नित्यम् ; पर्यायात्मनाऽनित्यत्वात्, तस्य चाभ्यन्तरीकृतद्रव्यत्वात् । उभयरुपस्य चानुभवसिद्धत्वात् । एकान्तभिन्नस्य चोभयस्याभावात् । उक्तं च'द्रव्यं पर्यायवियुतं पर्याया द्रव्यवर्जिताः । क्व कदा केन किंरूपा दृष्टा मानेन केन च ।।१॥' १. तद्गर्भत्वात् । २. तद्गर्भत्वात् । ३. स घटो नान्वय एव, कुतः, इत्याह-ऊद्धर्वादिरूपेण भेदित्वात्, एवं न भेद एव, कुतः? अन्वयवृत्तितो मृद्रूपेण प्रवृत्ते:, किं तर्हि ? अन्वयव्यतिरेकसम्बन्धवर्तमानं जात्यन्तरं घटः। ४. द्रव्यात्मनः। ५. द्रवति तांस्तान् पर्यायान् तद्भावपरिणामेन,इति; अन्यथा, द्रवणानुपपत्तिः, इति भावना । ६. पर्यायात्मनः । ७. अन्यथा, पर्ययणायोग इति हृदयम् । ८. देशे । ९. प्रमात्रा । १०. इतरेतरवैकल्येन नीरूपतापत्तेः, इत्यर्थः । ११. प्रत्यक्षादिना For Private and Personal Use Only
SR No.020041
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorHemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2007
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy