SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४४ अनेकान्तवादप्रवेशः सर्वार्थपरिच्छेत्तृत्वापत्तेश्च । न च 'इदं संवेदनं भ्रान्तम्' इति शक्यते वव देशकालनरावस्थान्तरेऽविशेषेण प्रवृत्तेः; तथाहि-देशान्तरे कालान्तरे नरान्तरेऽवस्थानान्तरे च मृत्पिण्डादिषु यथोक्तसंवेदनं प्रवर्त्तते । न चार्थप्रभवमविसंवादिसंवेदनं विहाय जातिविकल्पेभ्यः पदार्थव्यवस्था युज्यते, प्रतीतिबाधितत्वेन तेषामनादेयत्वात् । न चैकान्तनित्येषु यथोक्तसंवेदनसम्भवः, व्यावृत्ताकारनिबन्धनस्य पर्यायभेदस्याभावाद्; अन्यथा, एकान्तंनित्यत्वानुपपत्तेः, तथा चोक्तम्भावेष्वेकान्तनित्येषु नान्वयव्यतिरेकवत् । संवेदनं भवेद् धर्मभेदाभावादिह स्फुटम् ।।१॥ इत्यादि । तथा एकान्तनश्वरेष्वपि नाधिकृतसंवेदनभावो युज्यते, अनुवृत्ताकारनिबन्धनस्य द्रव्यस्यान्वयाभावात् । १. परिच्छेद्यवदपरिच्छेद्याकारशून्यत्वाविशेषाद, इति हृदयम् । २. अन्वयव्यतिरेकवत् । ३. न तु गमनावनतिमायोदकस्थाणुपुरुषशखादिपीतादिसंवेदनवद् देशान्तरादावन्यथारूपम्, इति । ४. व्यतिरिक्ताव्यतिरिक्तलक्षणेभ्यः। ५. अनुवृत्तव्यावृत्ताकार । ६. पर्यायभेदे सति । ७. पर्यायभेदाभावात् । ८. अन्वयव्यतिरकेवत् । For Private and Personal Use Only
SR No.020041
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorHemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2007
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy