SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकान्तवादप्रवेशः ३७ किं चातः ? यद्यन्यत्वं, किं सर्वथा ? आहोश्चित् कथञ्चित् ? यदि सर्वथा, ततो द्वितीयादिक्षणेष्वपि स्थितिप्रसङ्गः, प्रथमक्षणस्थितेः द्वितीयादिक्षणास्थितिविभिन्नत्वान्यथानुपपत्तेः; तथाहि - अनन्तराक्रान्तविग्रहाणां भावानामस्थित्यैकान्तभिन्नया वर्त्तमानसमयभाविनां स्थितिर्न विरुध्यते इति; एवं द्वितीयादिक्षणास्थितेरपि तदत्यन्तभेदे तद्भावाविरोधः, इति भावना । अथ कथञ्चिदन्यत्वम्, इति ? अतोऽनेकान्तवादापत्त्याऽभीष्टसिद्धिरेवास्माकमिति । अथानन्यत्वम्, तदपि सर्वथा ? कथञ्चिद्वा ? इति कथनीयम् । । यदि सर्वथा, प्रथमक्षणस्थितिरेव द्वितीयादिक्षणास्थितिः । सा च भावरूपा, ततश्च द्वितीयादिक्षणेष्वपि स्थितिरेव स्यात् । द्वितीयादिक्षणास्थितेर्वा निरुपाख्यत्वात्तस्या एव प्रथमक्षणस्थितित्वात् प्रथमक्षणेऽप्यभावप्रसङ्गः । अथ कथ For Private and Personal Use Only १. यथा हि-क्षणिकस्य घटादेः स्वकाले पटादिक्षणेन सह वस्त्वन्तरत्वान्न विरोधः । एवं द्वितीयक्षणभाविन्याऽस्थित्यापि सह प्रथमक्षणस्थितेर्न विरोधः, अन्यत्वाविशेषात् । ततश्च स्खलनाऽभावाद् द्वितीयेऽपि क्षणे प्रथमक्षणभाक् सत्त्वं स्थितिमदनुषज्यते । २. क्षणास्थितौ ।
SR No.020041
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorHemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2007
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy