SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकान्तवादप्रवेशः । २७ यत्किञ्चिदेतद्, एवं निबन्धनपरम्परायामपि वाच्यम् इति । नापि निरुद्धस्य, तस्यैवाविद्यमानत्वाद्, असतश्चोपकारकरणायोगाद, अभ्युपगमे चातिप्रसङ्गाद् । अतः साधुत्वं 'हेत्वयोगात्' इति । क्षणिकैकान्तपक्षे च फलभावानुपपत्तेः, इति; एतच्च वक्ष्यामः । यच्चोक्तम्-'भेदाभेदमभ्युपगच्छतावश्यं चेदमङ्गीकर्त्तव्यम्-इह धर्मधर्मिणोधर्मधर्मितया भेदः, स्वभावतः पुनरभेदः' इत्यादि । एतदपि 'धर्माणां मिथो भेदात् प्रतिनियतधाश्रितत्वाच्च कथञ्चिद्भेदः' इत्यादिना प्रत्युक्तम्, प्रकारान्तरेण भेदाभेदासिद्धेः । यदप्युक्तम् ‘संविन्निविष्टाश्च विषयव्यवस्थितयः; न च सदसद्रूपं वस्तु संवेद्यते उभयरूपस्य संवेदनस्याभावाद्' इत्यादि । एतदपि 'अनुवृत्तव्यावृत्तस्वभावं च वस्त्वध्यक्षतोऽवसीयते' इत्यादिना परिहृतम्, उभयरुपस्य संवेदनस्याबाधितत्वात् । यच्चोक्तम्-'न च कार्यद्वारेणापि सदसद्रूपं वस्तु प्रतिपत्तुं शक्यते, यतो नोभयरूपं कार्यमुपलभ्यते' इत्यादि । एतदप्यनवकाशम्, वस्तुस्थित्योभयरूपस्योपलम्भस्य साधितत्त्वात् । _ 'न च तत्कार्यकरणे प्रवर्त्तमानं केनचिदाकारेण करोति केनचिन्न करोति, एकस्य करणाकरण For Private and Personal Use Only
SR No.020041
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorHemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2007
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy