SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२ अनेकान्तवादप्रवेशः यत्पुनरिदमुक्तम्-'ततश्चात्रापि वक्तव्यम्; धर्मधर्मिणोः किं तावद्भेदः,-' इत्यादि । अत्रापि सर्वथा भेदपक्षोदितोऽभेदपक्षोदितश्च दोषोऽनभ्युपगमतिरस्कृतत्वादेव न नः क्षितिमावहति । भेदाभेदपक्षस्त्वभ्युपगम्यत एव । आह-नन्वत्रापि 'येनाकारेणभेदस्तेन भेद एव,'इत्यादि दूषणमुक्तम् । उक्तमिदम्, अयुक्तं तूक्तम्, अधिकृतविकल्पस्यार्थापरिज्ञानात्, अन्योन्यव्याप्तिभावेन भेदाभेदपक्षस्य जात्यन्तरात्मकत्वात् केवलभेदाभेदानुपपत्तेः । न हि 'अन्योन्याननुविद्धावेतौ' इति जैनमतम्, अभेदाननुविद्धस्य केवलभेदस्यासिद्धेः, भेदाननुविद्धस्य चाभेदस्यासिद्धेः । अत:-'येनाकारेण भेदस्तेन भेद एव' इत्यर्थशून्यमेव । अथ 'धर्मधर्मिणोर्भेदाभेदः' इति कोऽर्थः ? कथञ्चिद्भेदः कथञ्चिदभेदः, इति । तत्र धर्माणां मिथो १. प्रकारेण । २. भेदाभेदरूपस्य । ३. 'न नरो नर एवेति, न सिंहः सिंह एव वा । शब्दविज्ञानकार्याणां भेदाज्जात्यन्तरं हि तत् ।। १ ।। न नरः सिंहरूपत्वान्न सिंहो नररूपतः । सामानाधिकरण्येन नरसिंहः प्रतीतितः ।। २ ।।' For Private and Personal Use Only
SR No.020041
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorHemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2007
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy