SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २० अनेकान्तवादप्रवेशः उच्यते - यद्यपि सन्निवृत्तिमात्रं निरुपाख्यमसत्, तथापि स्वरूपेण सत्त्वात्, तद्रूपेण चासत्त्वात्, सदसद्रूपतैव; इति । ततश्चैवं न सर्वथा सत्त्वमसत्त्वपरिहारेण व्यवस्थितम्, न चासत्त्वं सत्त्वपरिहारेण । न चानयोरविशेष एव भिन्ननिमित्तत्वात्; तथाहि - 'स्वद्रव्यादिरूपेण सत्, परद्रव्यादिरूपेण चासद् ; ' इत्युक्तम् । ततश्च तद् यत एव सत् अत एवासद्, परद्रव्यादिरूपासत्त्वे सति स्वद्रव्यादिरूपेण सत्त्वाद्; तथा यत एवासत् अत एव सद् स्वद्रव्यादिरुपसत्त्वे सति परद्रव्यादिरूपेणासत्त्वात् । अत एव चैकत्र सदसत्त्वयोर्विरोधो न सम्भवति, Acharya Shri Kailassagarsuri Gyanmandir सतः १. पररूपेण । २. यस्माद्वस्त्वेवात्मघटादिसदसद्रूपतयोभयात्मकं वर्त्तते । न सत्त्वाननुविद्धमसत्त्वं नाम, तत्र वस्तुनि यदपेक्षयैतदुभयरूपं वस्त्विति, अतो यद्यपि 'सन्न भवतीति असत्' प्रसज्यप्रतिषेधरूपं, तथापि परद्रव्यादिरूपेण * प्रतिषेधात्; तस्य च परद्रव्यादिरूपेण सतस्तत्र विवक्षितसत्त्वेऽसत्त्वात्, तत्स्वरूपस्य तत्प्रतिषेधाय; असत्त्वस्य च सत्त्वानुवेधाद्विवक्षितसत्त्वानुवेधात् कारणान्न निरुपाख्यमेव इति प्रसज्यप्रतिषेधपक्षोक्त दोषाभाव:, पर्युदासप्रतिषेधपक्षदोषस्त्वनभ्युपगमान्न नः क्षितिमावहति । ( * पटादेः । ) ३. तदनात्मकत्वेन । ४. भावात्मकत्वेन ५. भावात्मकत्वेन । तदसत्त्वम्; For Private and Personal Use Only
SR No.020041
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorHemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2007
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy