SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १६ www.kobatirth.org अनेकान्तवादप्रवेश: अबादिद्रव्यत्वेनासत् तथा पार्थिवत्वेनापि असदेव स्यात्, तदसत्त्वाव्यतिरिक्तत्वात्तत्सत्त्वस्य । एवं यदि 'इहक्षेत्रसत्त्वमेव पाटलिपुत्राद्यसत्वम्, ततश्च तद्यथेह पाटलिपुत्रादावपि स्यात्, इह सत् तथा सत्त्वाव्यतिरिक्तत्वात् तत्रासत्त्वस्य; यथा वा पाटलिपुत्रादावसत् तथेहापि स्यात्, तदसत्त्वाव्यतिरिक्तत्त्वादिहसत्त्वस्य 1 एवं यदि 'घटकालसत्त्वमेव मृत्पिण्डकपालकालासत्त्वम्, ' ततश्च तद्यथा घटकाले सत् एवं मृत्पिण्डकपालकालेऽपि स्यात्, तत्सत्त्वाव्यतिरिक्तत्वात्तदसत्त्वस्य; यथा वा मृत्पिण्डकपालकालेऽसत् तथा घटकालेऽपि स्यात्, तदसत्त्वाव्यतिरिक्तत्वात्तत्सत्त्वस्य । एवं यदि 'श्यामत्वसत्त्वमेव रक्तत्वाद्यसत्त्वम्, ' ततश्च तद्यथा श्यामत्वेन सत् एवं रक्तत्वादिनापि स्यात्, तत्सत्त्वाव्यतिरिक्तत्वादितरासत्त्वस्य; यथा वा रक्तत्वादिनाऽसत् एवं श्यामत्वेनापि स्यात्, तदसत्त्वाव्यतिरिक्तत्वात्तत्सत्त्वस्य ततश्च तदितररूपापत्त्यादिनाऽवस्तुत्वप्रसङ्गः, इति । अथोच्येत, - नहि नः किञ्चिदबाद्यसत्त्वं निरुपाख्यं 1 २ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only * १. अबाद्यसत्त्वस्य परमार्थतोऽभावात्, इत्यर्थः I २. तस्य पार्थिवद्रव्यादिसत्त्वस्य अबादिद्रव्यत्वरूपापत्त्यादिना । ३. बौद्धेन । ४. अस्माकं बौद्धानाम् ।
SR No.020041
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorHemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2007
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy