SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४ अनेकान्तवादप्रवेशः । तथा यदि, यथा परद्रव्यक्षेत्रकालभावरूपेणासद्, एवं स्वद्रव्यक्षेत्रकालभावरूपेणापि स्यात्, इत्थमपि तद् घटादि वस्त्वेव न स्यात्, परद्रव्यक्षेत्रकालभावरूपेणासत्त्वे सति स्वद्रव्यक्षेत्रकालभावरूपेणाप्यसत्त्वात्, खरविषाणवद् इत्येवं तदभावप्रसङ्गात् सदसद्रूपं तदड्गीकर्तव्यम्, इति । तथा च द्रव्यतः-पार्थिवत्वेन सत्, नाबादित्वेन; तथा क्षेत्रतः-इहत्यत्वेन, न पाटलिपुत्रकादित्वेन; तथा कालत:-घटकालत्वेन, न मृत्पिण्डकपालकालत्वेन; तथा भावतः-श्यामत्वेन, न रक्तादित्वेन; इति । अन्यथा, इतररूपापत्त्या तत्स्वरूपहानिप्रसङ्गः, इति । द्रव्याद्यात्मकत्वं च घटस्य १. खरविषाणं हि पटरूपेणासत्तुच्छमिति । २. घटवस्त्वभावः । ३. तथा तत्स्थितिस्वभावत्वलक्षणेन । ४. अबादि । ५. घटादिवस्तु । ६. न हि मृदादिद्रव्यमात्रमेवैकान्तकस्वभावं तदाधारत्वपरिणतक्षेत्रानाधेयस्वभावं तत्कालभाविनां विना कृष्णोर्धादिभावशून्यं घटः तथाविधक्षेत्राद्यनुवेधादिरहितमृदादिद्रव्यमात्ररूपेण प्रकारेणानुपलब्धेः *तत्तदन्यतममात्रत्वे च तदितरवैकल्येन तत्स्वरूपानुपपत्तेः+ घटबुद्ध्यभावप्रसङ्गः । ( * तस्य घटस्य, तेषां पार्थिवद्रव्यादिनाम्, अन्यत्वे पार्थिवद्रव्यमात्रत्वे सति इह त्यत्वाद्यभावेन नाधिकृताधिकृत (?) पार्थिवद्रव्यत्वस्वरूपानुपपत्तिः । + अनुपपत्तिश्च विविक्तानां पार्थिवद्रव्यत्वादीनामसम्भवात् ।) For Private and Personal Use Only
SR No.020041
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorHemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2007
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy