SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकान्तवादप्रवेशः भावात् । त्यज्यतामुभय-रुपैकवस्तुवादाभिमानः । तथा चोक्तम्प्रवृत्तिनियमो न स्याद् विषादिषु तदर्थिनः । मोदकाद्यपृथग्भूतसामान्याभेदवृत्तिषु ।। १ । भेदे चोभयरूपैकवस्तुवादो न युज्यते । भेदाभेदविकल्पस्तु विरोधेनैव बाधितः ॥२ ।। विशेषरूपं यत्तेषु तत्प्रवृत्तेर्नियामकम् । साध्वेतत्, किन्तु वस्तुत्वंतस्यैवेत्थं प्रसज्यते ।।३।। __तथा परेणाप्युक्तम्सर्वस्योभयरुपत्वे तद्विशेषनिराकृतेः । नोदितो दधि खादेति, किमुष्टं नाभिधावति ? ॥१॥ तथाहि- उष्ट्रोपि स्याद्दधि, नापि से एवोष्ट्रः, त १. भेदे सामान्यादेषामिष्यमाणे । २. द्वयस्यापि प्रत्येकमेवैकत्वात् । ३. सामान्यविशेषयोः । ४. विषादिषु । ५. विषादिविषयायाः । ६. विशेषस्य । ७. सामान्य-विशेषरूपत्वे । उभयग्रहणमनेकत्वोपलक्षणम् । ८. अस्मिन् सति किम् ? इत्याह-'तद्विशेष०' उष्ट्र एव, न दधि; दधि दध्येव, नोष्ट्रः; इत्येवंरूपस्य विशेषस्य । ९. पुरुषः । १०. खादितुम्, इति शेषः । ११. केनचित्प्रकारेण । १२. उष्ट्र एव । For Private and Personal Use Only
SR No.020041
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorHemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2007
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy