________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६
अनेकान्तवादप्रवेशः । तत्कार्यकरणे प्रवर्तमानं केनचिदाकारेण करोति, केनचिन्न करोति, एकस्य करणाकरणविरोधात्; सर्वात्मना च करणे तद्भावरूपमेव स्यात्; तथाहिनाभावः कस्यचिदपि कारणं भवितुमर्हति, अभावत्वविरोधात्, तत्कारणत्वे च विश्वमदरिद्रं स्यात्; तत एव कटककुण्डलायुत्पत्तेः; न च 'तस्मानिरुपाख्यतयाविशिष्टातू कस्यचिदेव भावः, न सर्वस्य' इति वक्तुं युज्यते, हेत्वभावात् । अतः श्रद्धागम्यमेवेदं सदसद्रूपं वस्तु, इति । तथा चोक्तम्न च प्रत्यक्षसंवेद्यं, कार्यतोऽपि न गम्यते । श्रद्धागम्यं यदि परं वस्त्वेकमुभयात्मकम् ।।१।।
... इति प्रथमपूर्वपक्षः ।। १ ।।
एतेन नित्यानित्यमपि प्रत्युक्तमेवमवगन्तव्यम्, विरोधादेव । तथाहि-अप्रच्युतानुत्पन्नस्थिरैकस्वभावं समानजातीयं कारणेन सह सदृशं सत् कारणस्वभावं गमयितुं समर्थम् । न च कार्यं घटादि मृदादेः सदसद्रूपं वेद्यते, विद्यमानरूपोत्वेनैव तस्य प्रत्यक्षत एवोपलम्भात्, इति ।
१. वस्तु । २. कार्यस्येति शेषः । ३. वस्तु । ४. सकलशक्तिविकलस्तुच्छो ह्यभावः।५.अभावस्य ६.अभावादेव ।७.अभावात्। ८. मृदादेरिव घटादेः । ९. मृदादेरिव घटादौ प्रतिनियतशक्त्यभावेन । १०. एकत्रानेकविरुद्धधर्माध्यासायोगेन । ११. अप्रच्युतो निवृत्ति
For Private and Personal Use Only