SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकान्तवादप्रवेशः विरोधः, नह्यनुत्पन्नो निरुद्धो वाऽसौ तदाधानकर्तृत्वे प्रभुः, उदयकालाधानाभ्युपगमे च द्वयोरपि तुल्यकालप्रसङ्गः । अथ तद्गतः कार्यान्तरनिवर्तनसमर्थः शक्तिविशेषस्तमाधाय निरुद्धयते, इति पूर्वोक्तदोषः, तस्य कार्यव्यतिरेकेणानभ्युपगमात्, तदात्मलाभकाल एव चोत्तरकालभा पि तन्निवर्त्यस्य कार्यान्तरस्य भवनप्रसङ्गः, त त्रापेक्षित्वाद्, इतरस्यापि भावमात्रेणैव जनकत्वात्, अनन्तरभवने वा १. तस्मादुत्पन्नोऽविनष्टश्चोत्तरं कार्यं जनयतीति प्राप्तम् । एवं च क्षणिकत्वे कुशलकारिणो द्वितीयक्षणेऽप्यवस्थानप्राप्तेः । २. कुशल । ३. अथ कुशलकारी कुशलकारणक्षण एवोत्तरकार्यं जनयतीत्यभ्युपगम्यते तदा कार्यकारणयोरेककालताप्रसङ्गः । ४. दूषणान्तरमाह-तदित्यादि तस्याहितविशेषस्य कार्यस्य य आत्मकालस्तस्मिन्नेव तन्निष्पाद्यमग्रेतनकार्यं भाविकार्योत्तरमपि प्राप्नोति । एवं तस्मादप्यग्रेतनं यावत्तदेव सुखदुःखोपभोगप्राप्तिरित्यर्थः । ५. कार्यान्तरस्य । ६. यतस्तस्य कार्यस्याहितविशेषस्य यद्भावमात्रं तदेवापेक्षते कार्यान्तरम्, नान्यात्किञ्चित्कारणान्तरं तद्भावस्य समर्थस्यैवोत्पन्नत्वात् । ७. आहितविशेषस्य कार्यस्यापि । ८. न कारणान्तरापेक्षया । ९. अथाहितविशेषस्य कार्यस्यानन्तरं तस्मिन् विनष्ट कार्यान्तरं भवतीत्यभ्युपगम्यते प्राच्यदोषपरिहाराय, तदा तेन समर्थेन कार्येणानन्तरभूतेन यन्निर्वत्यै कार्यान्तरं तस्यापत्तेरतिप्रसङ्गात्, इदमुक्तं स्याद्यथा तदनन्तर For Private and Personal Use Only
SR No.020041
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorHemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2007
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy