________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकान्तवादप्रवेशः गम्यते तत्स्वभावत्वं स च तुल्यः फलान्तरे । तत्रैव तस्य व्यापार इति चेत् तन्न युज्यते ।। ३ ।। क्षणभङ्गसमुच्छेदाद् व्यापारो नासतो यतः । उत्पत्तिव्यतिरेकेण व्यापारो नेष्यते इति चेत् ? ॥४॥ व्यापारकालभावित्वात् कारणाभिन्नकालता । फलस्यापि च सत्येवं कार्यकारणता कुतः ॥५ ।।'
न चापि विशिष्टक्रियाहेतुत्वम्, इत्यतिव्याप्तेस्तस्य सर्वस्य समानत्वात्; सर्व एव हि पदार्था विशिष्टक्रियाहेतवः । इत्यलं प्रसङ्गेन ।
१. मृदादेर्घटादिजननस्वभावत्वं तदैवाव...पते यदि मृदादेरनन्तरं घटादेरुपलम्भः स्यात् स चोपलम्भः फलान्तरे पटादावपि तुल्यः, मृदोऽनन्तरं पटस्याप्युपलभ्यमानत्वात् । २. कारणानन्तरं कार्यस्योपलम्भ इति कारणस्य विशिष्टकार्यजननस्वभावत्वं नाभ्युपगम्यते, किञ्च तस्य कारणस्य तत्रैव विशष्टेि कार्ये व्यापार इति कारणस्य तत्स्वभावत्वाभ्युपगम इति चेत् । ३. क्षणनश्वरत्वे निरन्वयोच्छेदात् । ४. कारणस्य । ५. कार्यस्योत्पत्तिरेव कारणस्य कार्ये व्यापार इति चेत् । ६. नहि कारणमन्तरेणोत्पत्तिलक्षणो व्यापारो भवतीत्यर्थः । ततश्च कारणफले अभिनकाले प्राप्ते । ७. अथाष्टमं मौलं विकल्पमाह । ८. अतः सर्वेऽपि पदार्था मिथो हेतुफलतां प्राप्नुयुः ।
For Private and Personal Use Only