SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८९ ४ अनेकान्तवादप्रवेशः तत्र व्यस्ता उपादानसहकारिप्रत्ययाः समस्तान् स्वानुरूपकार्योपजननयोग्यान् जनयन्ति, समस्ताश्च तैरुपाहितातिशयरूपाः सामर्थ्यप्रकर्षवता रूपभेदेनानुगतानन्यान् कालोपाधिप्रकर्षप्रापितरूपभेदान्, तेऽप्यन्यान्मात्रया, इति क्रमेणोत्तरोत्तरप्रसवपरम्परया विवक्षितफलापेक्षया चरमक्षणकालभाविनो भावाः परतस्तमतिशयमासादयन्ति, यतः कार्यजन्मेति तदेव वैशिष्ट्यमिष्यते, इति । एतदप्ययुक्तम्, विहितोत्तरत्वात्, नहि व्यस्तानामपि कारणे विशेषाधानमन्तरेण समस्तलक्षण १. बीजक्षित्यादयः । २. यदा जलार्द्रायां पृथ्व्यां बीजमुप्तं तदा बीजमपि क्षित्यादीन् सर्वान् जनयति । क्षितिरपि क्षितिबीजादीन् सर्वान् । एवमन्येऽपि । ३. स्वनिष्पाद्याङ्कुरादिकार्यजननसमर्थान् क्षणान् । ४. एकैकशो बीजक्षित्यादिसमस्तजननस्वभावा बीजादयः । ५. आत्मना आत्मना सह जातैः क्षित्यादिभिः । ६. यदा हि समस्ता अन्यान् समस्तान् जनयन्ति, तदाऽमीषां सहोत्पन्नैः क्षित्यादिभिरतिशयः स्यात्; यदा तु तेऽन्येऽपि समस्ता अपरान् समस्तान् जनयन्ति, तदा तेऽन्ये समस्ता अन्यूनानतिरिक्तकारणत्वात्, कथमपरसमस्तेष्वतिशयमादधतीत्याह-कालेति, काललक्षणो योऽसौ उपाधिविशेषस्तेन कृत्वाऽन्यैः समस्तैः प्रापितो रुपभेदो येषामपरसमस्तानां तान् । ७. किञ्चिदधिकमित्यर्थः । ८. व्यस्ता हि समस्तलक्षणं विशिष्टं कार्यं तदा जनयन्ति, यदि For Private and Personal Use Only
SR No.020041
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorHemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2007
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy