SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७८ अनेकान्तवादप्रवेशः इति अभिलाप्यानभिलाप्योभयरूपैकवस्तुवादः समाप्तः ।। ४ ।। (५) यदप्युक्तम्-'विरोधिधर्माध्यासितस्वरूपत्वाद्वस्तुनोऽनेकान्तवादिनो मुक्त्यभावप्रसङ्गः' इति-एतदपि सूक्ष्मेक्षिकया मुक्तिमार्गमनालोच्यैवोक्तम्, इति, उक्तवत्सत्त्वानित्यत्वादीनां विरोधित्वासिद्धेः, अन्यथा वस्त्वभावप्रसङ्गात् । किञ्च-विरोधिधर्माध्यासितस्वरूपाभाव एव वस्तुन एकान्तवादिन एव मुक्त्यभावप्रसङ्गः; तथाहियदि 'तदात्माङ्गनाभवनमणिकनकधनधान्यादिकमेकान्तेनैवानात्मादिकधर्मयुक्तं', हन्त ! तर्हि सर्वथाऽनात्मकत्वाद्भावकभाव्याभावात् तत्परिज्ञानोत्तरकालभाविभावनाऽभावतः कुतः ? कस्य वा ? मोहादिप्रहाणम् ? इति कथ्यतामिदम् । स्यादेतत्-परपरिकल्पिताऽविचलितैकस्वभावात्मापेक्षया तदनात्मकमभ्युपगम्यते, न पुनः प्रतिक्षणनवरात्मापेक्षया, इति । एतदप्यसारम्, विकल्पानुपपत्तेः; तथाहि १. अनेकान्तात्मकवस्त्वभाव इत्यर्थः । २. एकान्तेनैवात्मकत्वादिवस्तु । ३. अथैवं मन्यसे । ४. वस्तु । For Private and Personal Use Only
SR No.020041
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorHemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2007
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy