SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७६ अनेकान्तवादप्रवेशः स्यात्मनो मिथ्यात्वादिजनितज्ञानावरणादिकर्ममलपटलाच्छादितस्वरूपस्य सङ्केततपश्चरणदानप्रतिपक्षभावनादिभिस्तदावरणकर्मक्षयोपशमक्षयावेवापाद्यते; ततो विवक्षितार्थाकारसंवेदनं प्रवर्त्तते, इति; अन्यथा, तत्प्रवृत्त्यभावात् । तत्प्रथमतयैव सर्वत्रादृष्टसङ्केतानामर्भकाणां सङ्केतस्य कर्तुमशक्यत्वात्; तथाहि-न शब्दादप्यसङ्केतितात्तदर्थे प्रतिपत्तियुज्यते, तत्सङ्केतकरणे च तत्राप्ययमेव वृत्तान्तः, इति, अनवस्थाप्रसङ्गः । क्वचिदवस्थाने चास्मन्मतानुवाद एव, नहि कथञ्चिद्वास्तवसम्बन्धाभावे सत्यवस्थानं प्रयुज्यते, इति । स्यादेतद्, अर्भकोऽप्यसकृद् ‘अयम्' इत्यादिशब्दसङ्केत्यार्थसन्निधावुच्चार्यमाणमाकर्ण्य व्यवहत॒श्च १. आदिपदादविर त्यादिग्रहः, मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः, इति वचनात् । २. आदिपदाद् दर्शनावरणादिग्रहः । ३. आदिशब्द एतेषामेव स्वभेदप्रख्यापकः । ४. क्षयोपशमादेः। ५. अभावोऽपि कुत इत्याह । ६. तज्जन्मापेक्षया । ७. सङ्केतशब्दादपि सकाशात् । ८. सङ्केतशब्दार्थे । ९. अयुक्ता च सङ्केतवैयर्थ्यप्रसङ्गात् प्रसङ्गश्च सङ्केतितादपि सङ्केतशब्दात् तदर्थप्रतीतेः । १०. सङ्केतशब्दस्य । ११. अपरसङ्केतशब्दे । १२. यदुत तत्सकेतकरणमेव । १३. शब्दान्तरे । १४. अशङ्कितादेव तत् प्रतीतावभ्युपगम्यमानायामित्यर्थः। १५. अयं घट इत्यादिरूपम्। For Private and Personal Use Only
SR No.020041
Book TitleAnekantvad Pravesh
Original Sutra AuthorHaribhadrasuri
AuthorHemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2007
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari
File Size52 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy