SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ अङ्कः) अनर्घराघवम् । लक्ष्मणः--(सर्वतो दृष्ट्वा ।) आर्य, उद्दामामणिद्युतिव्यतिकरप्रक्रीडदोपल___ज्वालाजालजटालजाङ्गलतटीनिष्कूजकोयष्टयः । भौमोप्मप्लवमानसूर्यकिरणक्रूरप्रकाशा दृशो राविष्कर्म समापयन्ति धिगमूर्मध्याह्नशून्या दिशः ॥ ३० ॥ अन्तिकतमा चेयं यज्ञवाटभूमिः । तदेतदेव न्यग्रोधच्छायामण्डपमैंध्यासीना ऋत्विजः प्रत्यवेक्षामहे । गलितयौवने पुनरहनि भगवन्तं द्रक्ष्यावः । ऐणेय्यामिति 'एण्या ढञ्' इति विकारे ढञ् । वसत इति 'वस आच्छादने' । 'आत्मनेपदेष्वनतः' इति झस्यातादेशः। तारवीरिति तरोविकारः । अण् । 'ओर्गुणः' । 'टिडाणञ्-' इति टीप् । चार्मणे इति चर्मणो विकारः । तस्य विकारः' इत्यण् । 'कोशे टिलोपो वक्तव्यः' इति नियमात्कोशादन्यत्र टिलोपाभावः । ससंभ्रमं सादरमित्यर्थः । मामपि कौशिकोऽप्यपेक्षत इति भावः । वाटो मार्गोऽग्निवौं । अधिष्ठायाश्रित्य । अह्ना दिवसेन निवृत्तमाह्निकम् । 'तेन निवृत्तम्' इति ठञ् । 'अह्नष्टखोरेव' इति नियमाहिलोपाभावः । 'अलोपोऽनः' इत्यलोपः । प्रत्यनन्तरः संनिहितः । मध्याह्नसंचारस्यातिदुःखजनकतया क्षणं छायामाश्रयितुमना गुरुकार्यानुरोधेन रामं छायाश्रयणानुत्कण्ठितमालोक्य साक्षाद्वक्तुमशक्यतया मध्याह्नवर्णनेनार्थाद्विश्रामं कर्तुमाह-उद्दामेति । धिकटे निन्दायां वा। अमूमध्याह्ने शून्या दिशः । मध्याह्ने खल्वातपभयाजनसंचाराभावात् । दृशोश्चापोराविष्काविष्कारः । प्रसरणमिति यावत् । समापयन्त्यपहरन्ति । क्वचित् 'आयुष्कर्म' इति पाठः । तत्र प्राणधारणसामर्थ्यमित्यर्थः। कचित् 'मध्येऽदि शून्या दिशः' इति पाटः । भगवतः सूर्यस्यात्यन्ततेजःप्रसरणाचक्षुस्तेजो न प्रसरति । सौरतेजसैवाभिभूतत्वात् । उद्दामा प्रबला या ामणिद्युतिः सूर्यदीधितिस्तस्या व्यतिकरः संबन्धः समूहो वा तेन प्रक्रीडन्योऽपिलः सूर्यकान्तमणिस्तस्य ज्वालाजालेन जटालेव जटाला जाङ्गलतटी निर्जलदेशस्तत्र निष्कूजो निःशब्दोऽथवा निःशेषेण शब्दयोगी कोयष्टिष्टिहिभः 'कोण्टाडावुक' इति प्रसिद्धो जलपक्षी यासु तादृशाः। भूम्या अयं भौमः ऊष्मा तापस्तत्र प्लवमाना भ्रमन्तो ये सूर्यकिरणास्तैः क्रूरः कठिनः प्रकाशो यासु तास्तथा । जटालेति 'जटाघटाकटाकालाः क्षेपे' लच् । 'उद्दामो बन्धुरहिते स्वतन्त्रे च प्रचेतसि' इति मेदिनीकरः । ‘ामणिस्तरणिमित्रः' इत्यमरः । 'जङ्गलं निर्जलस्थानम्' इति धरणिः । 'क्रूरस्तु कठिने घोरे' इति च । मध्यमह्नो म १. 'निरूप्य' इति पाठः. २. 'सूरकिरण' इति पाठः. ३. 'यज्ञभूमिः । तदेतन्यग्रोध' इति पाठः. ४. 'अध्यासीनानृत्विजः' इति पाठः. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy