SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। (अन्यतश्च दृष्ट्वा ।) आर्य, पश्यैते पशुबन्धवेदिवलयैरौदुम्बरीदन्तुरै नित्यव्यञ्जितगृह्यतन्त्रविधयो रम्या गृहस्थाश्रमाः । यत्रामी गृहमेधिनः प्रचलितखाराज्यसिंहासना वैतानेषु कृपीटयोनिषु पुरोडाशं वषट्कुर्वते ॥ १७ ॥ रामः-(सहर्षस्मितम् ।) वत्स, इतोऽपि तावत्कृतार्थयावश्चक्षुषी । प्रसन्नपावनोऽयमृषीणां समवायः । इदममीषाम् प्रचक्षते' इति स्मृतिः । 'तीर्थ शास्त्रे पुरे क्षेत्रे' इति विश्वः । 'दानमध्यापनं पितृतर्पणातिथिपूजनम् । होमो बलिश्च विप्राणां षट्कर्माणि दिने दिने' । यद्वा यजनयाजनाध्ययनाध्यापनदानप्रतिग्रहाः षटकर्माणि । प्रयुञ्जत इत्यत्र 'प्रोपाभ्यां युजेः-' इति त । पश्येत्यादि । हे आर्य रामभद्र, एते पुरोवर्तिनो गृहस्थाश्रमा रम्याः । सन्तीति शेषः। तान्पश्येत्यन्वयः । तानित्यध्याहार्यम् । यद्वा वाक्यार्थस्यैव कर्मत्वम् । तत्र वाक्यस्याप्रतिपादकत्वान्न द्वितीया । कीदृशाः । पशुबन्धो यागविशष स्तस्य वेदिः परिष्कृता भूमिस्तस्या वलयैर्मण्डलैः करणभूतैर्नित्यं व्यञ्जितो व्यक्तीकृतो गृह्यतन्त्रविधिPह्यसिद्धान्तविधानं येषु ते । यद्वा पशूनां वन्धो यत्र सा पशुबन्धवेदिस्तासां वलयैः समूहैः । कीदृशैः। औदुम्बर्युदुम्बरकाष्ठस्थूणा तया दन्तुरैरुनतैः । पशुबन्धयागे हि पशुर्वध्यते, औदुम्बरीस्पर्शश्च क्रियते । यदाह-'औदुम्बरी स्पृष्ट्वोद्गायेत्' इति । 'उदुम्बरस्तु देहल्यां वृक्षभेदे च' इति मेदिनीकरः । यद्वा औदुम्बरी सर्पफणाकारः काष्ठभेदः । यः खलु यज्ञस्थाने पशुबन्धार्थ निखात्य ध्रियते तेन दन्तुरैः । यत्र गृहस्थाश्रमे गृहमेधिनः सपत्नका गृहस्था वैतानेषु यज्ञसंवन्धिषु कृपीटयोनिषु वह्निषु पुरोडाशं चतुर्मुष्टिव्रीहिनिर्मिताश्वशफाकारपिष्टकम् । 'चतुरो मुटीनिर्वपति', 'अश्वशफाकारः पुरोडाशः' इति श्रुत्या तादृक्पिष्टस्य पुरोडाशपदवाच्यत्वविधानात् । वषट्कुर्वते । जुह्वतीत्यर्थः । तदुक्तम्-'स्वाहा देवह विर्दाने श्रौषट् वौषट् वषट् स्वधा' इति । प्रचलितं कम्पिते स्वाराज्यस्य स्वर्गराज्यस्य सिंहासनं येभ्यस्ते । ममैते किं स्वामिनो भवेयुरिति तेषां कम्प इति भावः । प्रचलितमिति 'चल कम्पने' णिच् । 'कम्पने चलिः' इति मित्संज्ञा । गृहमेधिन इति गृहा दाराः । 'न गृहं गृहमित्याहुर्घ हिणी गृहमुच्यते' । तेषां मेधः संगमः । 'मेधृ संगमे । स एषामस्तीति गृहमेधिनः । 'अत इनिः' । 'दन्तुरस्तून्नतदन्ते तथोनतनतेऽपि च' इति मेदिनीकरः । 'कृपीटयोनिर्बलनः' इत्यमरः । 'वेदिः परिष्कृता भूमिः' इति च । इत इति । इतोऽत्रेत्यर्थः । आद्यादित्वात्सप्तम्यां तसिः । कृतार्थयावश्चरितार्थीकुर्वः । 'तत्क १. 'अन्यत्र च' इति पाठः. २. 'सहर्षम्' इति पाठः. ३. 'वत्स, लक्ष्मण' इति पाठः ४. 'तावत्कृतार्थय' इति पाठः. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy