________________
Shri Mahavir Jain Aradhana Kendra
२ अङ्कः]
www.kobatirth.org
अनर्घराघवम् ।
भूयोऽपि क्रमशः प्रसारयति ताः संप्रत्यमूनुद्यतः संख्यातुं सकुतूहलेव नलिनी भानोः सहस्रं करान् ॥ ५ ॥
अपि च ।
Acharya Shri Kailassagarsuri Gyanmandir
प्रत्यासन्नसुरेन्द्र सिन्धुरशिरः सिन्दूरसान्द्रारुणा यत्तेजस्त्रसरेणवो वियदितः प्राचीनमतन्वते । शङ्के संप्रति यावदभ्युदयते तत्तर्कुटङ्कान्मृजारज्यद्विम्बरजश्छटावलयितो देवस्त्विषामीश्वरः ॥ ६ ॥
For Private and Personal Use Only
५७
नलिनी पद्मिनी या दशशतान्यम्भोजसंवर्तिकाः पद्मनवदलानि समकोचयत्संकोचितवती, ताः संवर्तिका दशशतान्येव संप्रतीदानीं भूयोऽपि पुनरप्युद्यत उदयं गच्छतो भानोः सूर्यस्य सहस्रं करान्कौतुकेनेव संख्यातुं गणयितुं क्रमशः प्रसारयति । कमलानां सहस्रपत्रत्वाद्भानोरपि सहस्रकिरणत्वाद्यथा यथा किरणा अस्तं यान्ति तथा तथा कमलिनीपत्राणि मुद्रितानि भवन्ति । यथोदयन्ते तथा तथा विकसितानि भवन्तीति भावः । यतामिति इणः शतरि रूपम् । यद्यपि दशशतशब्दो नपुंसकस्तथापि संवर्तिकाशब्देन स्त्रीलिङ्गेन विशेष्यभावो भवत्येव । 'विंशत्याद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोः' इति वचनात् । विशेषणविशेष्यभावश्चार्थयोरिति लिङ्गविशेषोपस्थाप्यताया अतन्त्रत्वात् । सहस्रं करानित्यत्र करगतं बहुत्वं सहस्रगतं चैकत्वं विवक्षितम् । अतो भिन्नवचनत्वेऽपि सामानाधिकरण्यम् । 'करो वर्षोपले रश्मौ' इति मेदिनीकरः । अनेककिरणेनालंकुर्वतोsपि नभस्तलं सूर्यस्योदयं प्रति कुतो विलम्ब इत्यत्र निमित्तमाशङ्कते - प्रत्यासन्नेति । शङ्के तर्कयामि । त्विषामीश्वरः पतिर्देवः सूर्यः । तदिति पूर्वप्रसिद्धिख्यापनाय । तर्कः कुम्भकारस्य चक्राकारशिलाभाण्डं तत्र या टङ्केन दारणेन 'टांकी' इति प्रसिद्धेन । उन्मृजा शुद्धिः । तक्षणमिति यावत् । वित्त्वादङ् । तेन रज्यद्रक्तीभवत् । कर्मकर्तरि श्यन् परस्मैपदं च । यद्विम्बं मण्डलं तस्य रजश्छटया कणसमूहेन वलयितो वेष्टितः सन् यावदभ्युदयत उदेष्यति । यावत्पुरानिपातयोर्लट्' इति भविष्यति लट् । तावदेव ततस्त्रसरेणव इतोऽस्मिन्प्रदेशे प्राचीनं पूर्वदेश संबन्धि वियदाकाशमातन्वत आच्छादयन्ति । प्राचीनमित्यत्र प्राच: ' विभाषाञ्चेरदिक्स्त्रियाम्' इति खः । इत इति आद्यादित्वात्तसि: सप्तम्यन्तात् । यद्वा इतोऽस्मात्कारणाच्छङ्क उत्प्रेक्ष इति योज्यम् । यद्वा यावदित्युपक्रम उदयत इति वर्तमानतैव । 'अय गतौ' तङि रूपम् । 'त्वष्टृटकोन्मृजा' इति पाठे त्वष्टुर्विश्वकर्मण इत्यर्थः । कीदृशाः । प्रत्यासन्नो निकटो यः सुरेन्द्रः । पूर्वदिगधिपत्वात् । तस्य यः सिन्धुरो हस्ती ऐरावतस्तस्य मस्तक सिन्दूरेण सान्द्रं निबिडं यथा तथारुणा अत्यन्तलोहिताः । न तु स्वभावतः, किं तूपाधिसंभेदात्तथा । 'टङ्को नीलकपित्थे च खनित्रे १. 'आचिन्वते' इति पाठान्तरम्.
अन० ६