________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
वामदेवः-(सहर्षे दृष्ट्वा ।) कथमागतो रामभद्रः । (मुनि प्रति ।) भगवन् ,
ब्रह्मज्योतिर्विवर्तस्य चतुर्धा देहयोगिनः ।
ऋष्यशृङ्गचरोरंशः प्रथमोऽयं महाभुजः ॥ ५० ॥ विश्वामित्र:-(सहर्षसंभ्रममैवलोक्य ।) वामदेव, किमुच्यत आरण्यकेषु किमपि प्रैकृष्टतमं ब्राह्मण्यमृष्यशृङ्गस्य । न केवलममुना वत्सेन ब्रह्मर्षिविभाण्डकः पुत्रवतां धुरमारोपितः, दशरथोऽपि । दशरथः-भगवन् , एवमेवैतत् ।
ये मैत्रावरुणं पुरोहितवतो वंशे मनोर्जज्ञिरे ___ तास्ता वैनयिकीः क्रिया विदधिरे येषां च युष्मादृशः। तेषामञ्चलमेष ते दशरथः संप्रत्यमी ये पुन
र्जातास्ते ध्रुवमृष्यशृङ्गतपसामैश्वर्यमिक्ष्वाकवः ॥ ५१ ।। निगृह्णतो भस्मीकर्तुमिच्छतः । व्रतविहतिकरीभिरिति 'कृजो हेतुताच्छील्यानुलोम्येषु इति टः । टित्त्वात् ङीप् । 'विष्टपं भुवनं जगत्' इत्यमरः । वामदेवो रामभद्रं परिचाययतिब्रह्मेत्यादि । ऋष्यशृङ्गस्य मुनिविशेषस्य चरोहव्यान्नस्यायं महाभुजो रामः प्रथमोंऽश आद्यो भागः । कीदृशस्य । ब्रह्मतेजःपरिणामस्य चतुर्धा चतुष्प्रकारेण रामादिराजपुत्रचतुष्टयत्वेन देहयोगिनः शरीरभागिनः । 'अंशः स्कन्धे च भागे च' इति विश्वः । 'जलावतेऽप्यथ चरुः पुमान्हढ्यान्नभाण्डयोः' इति धरणिः । ब्रह्मज्योतिर्विवर्तोऽयमिति कृत्वा लीलामात्रेणैव मदिष्टसाधनक्षम इत्याशयादाह-सहर्षमिति । अत एव संभ्रम आदरः । आरण्यकेषु वनवासिषु मध्ये । 'अरण्यान्मनुष्ये' इति वुञ् । ब्राह्मण्यं ब्रह्मकर्म । ब्राह्मणादित्वात्ष्यञ् । वत्सेन पुत्रप्रायेण । 'पुत्रादौ तर्णके वर्षे वत्सः' इति विश्वः । अमुना ऋष्यशृङ्गेण । 'विभाण्डकस्यापि ऋष्यशृङ्गप्रसादादेव पुत्रो वृत्तः' इति पुराणम् । विश्वामित्रवाक्यमनुमोदमान एव ऋष्यशृङ्गस्तुतिमाह-ये मैत्रावरुणमिति । ये राजानो मैत्रावरुणं वसिष्ठं पुरोहितवतः पुरोहितं कुर्वतः । यद्वा पुरोऽग्रे हितवतोऽर्पितवतः । मनोवैशे जज्ञिरे जाताः । येषां च राज्ञां युष्मादृशो भवद्विधास्तास्ताः प्रसिद्धा वैनयिकीर्विनयप्रधानाः। यद्वा विनयाधारहेतुभूताः। क्रिया व्यापारकलापान्विदधिरे विहितवन्तः। ते तवायं दशरथस्तेषां राज्ञामञ्चलं प्रान्तदेशः। 'अञ्चल' इति ख्यातेः अश्चलशब्दस्याजहल्लिङ्गतयान्वयः। संप्रत्यधुना ये पुनरमी रामादय इक्ष्वाकवो जातास्ते ध्रुवं निश्चितमृष्यशृङ्गतप
१. 'रामं दृष्ट्वा सहर्षम्' इति पाठान्तरम्. २. 'आलोक्य' इति पाठान्तरम्. ३. 'प्र. कृष्टतमं किमपि' इति पाठान्तरम्. ४. 'राजर्षिर्दशरथोऽपि' इति पाठान्तरम्. ५. 'वामदेवः' इति पाठान्तरम्. ६. 'भैत्रावरुणिम्' इति पाठान्तरम्. ७.'अञ्चलः' इति पाठान्तरम्.
For Private and Personal Use Only