SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। मध्येकृत्य घनं धिनोति जलधिः खैरम्बुभिर्मेदिनी ___ हन्ति खैः किरणैस्तमिस्रमरुणं कृत्वान्तराले रविः । त्वं रामान्तरितश्च पालय निजैरेव प्रतापैः प्रजा___मीदृक्कोऽपि परोपकारसुहृदामेष खभावो हि वः ॥ ३७ ।। किं च । दृष्टः साक्षादसुरविजयी नाकिनां चक्रवर्ती ___ मात्स्यो न्यायः कथयति यथा वारुणी दण्डनीतिः । पातालेन्द्रादहिभयमथास्त्येव नित्यानुषक्तं तन्नः पुण्यैरजनि भवता वीर राजन्वती भूः ॥ ३८ ॥ रिप्यते सरक्षकं विधास्यते। अभूततद्भावे च्विः । कर्मणि लुट् । ननु रामेण तवाश्रमपदमलंकृतं तेनास्माकं किमायातम , यतः सर्वः स्वार्थ समीहत इत्याशङ्कानिरासायाह-अपि चेति । तथापि करणफलस्य कर्तरि क्व पर्यवसानमित्यत आह-मध्येकृतेति । केचित्तु यद्येवं भवतां महत्प्रयोजनं तदा यज्ञरक्षार्थ मयैव गन्तव्यम् , किं फलं रामभद्रगमनेनेति दशरथवचनमाशङ्कय मध्येकृत्येत्यागुत्थापयन्ति । जलधिः समुद्रो घनं मेघ मध्येकृत्यान्तरामकृत्वाम्बुभिः पानीयमदिनीं पृथिवीं धिनोति प्रीणाति । मेघाः खलु समुद्राजलमादाय वर्षन्ति, तन्मेघद्वारा समुद्रः पृथिवीं प्रीणातीति भावः । रविः सूर्योऽरुणं स्वसारथिमन्तराले मध्ये कृत्वा किरणैस्तमिस्रमन्धकारं हन्ति नाशयति । त्वमपि रामान्तरितो रामोऽन्तरितो मध्यीभूतो यस्य स तादृशः सन् , राममन्तराले कृत्वा निजैः स्वकीयैः प्रतापैः प्रजां पालय रक्ष । प्रकृतप्रयोजक रूपमाह-यतः परोपकारसुहृदां वो युप्माकं जलध्यादित्रयाणामीगीदृशः कोऽप्यनिर्वचनीयः खभावः । तथा च रामद्वारा मत्कार्यमनुपालयेति भावः । मध्येकृत्येति 'मध्येपदे निवचने च' इति गतिसंज्ञा । 'कुगतिप्रादयः' इति समासे क्त्वो ल्यप् । धिनोतीति ‘धिन्विकृण्व्योर च' इत्युकारप्रत्ययोऽकारश्चान्तादेशः । 'तमिस्रं तिमिरं तमः' इत्यमरः । 'अरुणोऽव्यक्तरागेऽर्के संध्यारागेऽर्कसारथौ' इति मेदिनीकरः । 'निजं स्वीये च निये च' इति च । तत्किमन्ये शकादयो रक्षका न सन्येवेत्यत आह-दृष्ट इत्यादि। किं च । अन्यचेत्यर्थः । नाकिनां चक्रवर्तीन्द्रः साक्षात्प्रत्यक्षमेव दृष्टः । कीदृशः । असुरविजय्यमुरस्यैव जेता, नाधर्मस्येति स्तुतिनिन्दापरं वचनम् । यद्वासुरमात्रविजयी स त्वं पुनरधर्मविजय्यसुरविजयी च । यद्वामुराणां विजयी यतः, अतस्तस्य सकुल्यविजयित्वादन्यायप्रवृत्तस्य राज्ये स्थातुं न युक्त मिति। यद्वामुरादिगतो जयो यस्य तादृशः। यद्वा तस्यासुरविजयित्वात्सदैव युद्धं लग्नमेव वर्तते, तेन तस्य १. 'प्रभावैः' इति पाठान्तरम्. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy