SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १ अङ्कः] ( विहस्य 1 ) www.kobatirth.org अनर्घराघवम् । Acharya Shri Kailassagarsuri Gyanmandir जवादाराद्धुं त्वामुपनमति वर्गे दिविषदामैपव्यस्तो मन्दैरजनि रथहंसैः कमलभूः । नियच्छामो जिह्वां न तव चरितेभ्यः किमुत ते सुधासध्रीचीनामतिपतति वाचामवसरः ॥ ३३ ॥ (अञ्जलिं बच्चा ।) भगवन्, प्रसीद तावत् । उत्तरोत्तरेषां महोत्सवानां कदाचिदपि न तृप्यन्ति पुंसां हृदयानि, यदियं त्वदुपस्थानसुलभसंभावनातिप्रसङ्गसंगीत नर्तकी मे चित्तवृत्तिर्नियोगानुग्रहाय स्पृहयति । अपि च । ३५ चनानि । अन्तरायं विन्नम् । 'पुरा विश्वामित्रेणान्या सृष्टिः कर्तुमारब्धा । अनन्तरमिन्द्रादीनां दैन्योक्त्या पादपातेन च समुपशमिता' इति पुराणम् । ब्रह्मणोऽपव्यस्ततामुत्प्रेक्ष्याह —– विहस्य जवादिति । जवाद्वेगाद्दिविषदां देवानां वर्गे त्वामाराद्धुमुपनमत्युपनते सति कमलभूर्ब्रह्मा मन्दैर्मन्थरगमनै रथहंसै रथबद्धहंसैरपव्यस्तोऽजनि विसंस्थलो जातः । सत्वरकार्ये मन्दगमनादपव्यस्तता । तव चरितेभ्यो जिह्वां न नियच्छामो न निवारयामः । वयं नृम एव तव चरितानीत्यर्थः । किं तु सुधासध्रीचीनाममृतसहच • रीणां तव वाचामवसरः प्रस्तावोऽतिपतत्यतिक्रामति । त्वदागमनप्रयोजनं ज्ञातुमिच्छामि तदादेशयेति भावः । अत्र चरितेभ्य इति पञ्चमी । 'प्रस्तावेऽवसरो वर्षे' इति विश्वः । 'व्यस्तो विसंस्थुले ख्याते' इति धरणिः । यद्वा चरितेभ्य इति चतुर्थी । तव चरितेभ्यो जिह्वां न नियच्छामो वयं न दद्मो दातुमसमर्थाः किमुत किं च सुधासध्रीचीनां तव वाचामवसरोऽतिक्रामति । दाणो यच्छादेशः । सध्रीचीनामिति अञ्चतेः सहशब्दोपपदात् 'ऋत्विक्- ' आदिसूत्रेण क्विन् । 'सहस्य सधि:' । 'अञ्चतेश्चोपसंख्यानम्' इति ङीप् । ‘अचः’ इत्यकारलोपः । 'चौ' इति दीर्घः । उत्तरोत्तरेषामग्रिमाग्रिमाणाम् । महोत्सवानामिति करणे षष्ठी । अत्र यद्यपि षष्ठीविधायकं प्रमाणं नास्ति, तथापि 'पूरण-' इत्यादिसूत्रेण षष्ठीसमासनिषेधात्करणे षष्ठ्यनुमीयते । यथा - 'नाग्निस्तृप्यति काष्टानां नापगानां महोदधिः' इति । उपस्थानं पूजास्तवादिकम् । यद्वोपस्थानमुपस्थितिः । संभावना गौरवम्, तस्या अतिप्रसङ्गोऽतिशयः स एव संगीतं तत्र नर्तकी । नियोग आज्ञा तद्रूपोऽनुग्रहस्तस्मै स्पृहयति । 'स्पृहेरीप्सितः' इति संप्रदानता । एता ३. प्रसी १. 'अपव्वस्तः' इति पाठान्तरम्. २. 'अभिपतति' इति पाठान्तरम्. दतामुत्तरोत्तरेषाम्' इति पाठान्तरम्. ४. 'नियोगानुयोगाय' इति पाठान्तरम्. For Private and Personal Use Only
SR No.020040
Book TitleAnargha Raghavam
Original Sutra AuthorN/A
AuthorMurari, Durgaprasad Pandit, Vasudev Lakshman Shastri
PublisherNirnaysagar Press
Publication Year1908
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy