________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ अङ्कः]
अनर्घराघवम् । अपि च । दत्तेन्द्राभयविभ्रमाद्भुतभुजासंभारगम्भीरया
त्वद्वत्त्या शिथिलीकृतस्त्रिभुवनत्राणाय नारायणः । अन्तस्तोषतुषारसौरभमयश्वासानिलापूरण
प्राणोत्तुङ्गभुजंगतल्पमधुना भद्रेण निद्रायते ॥ २७ ।। तिस्तदुत्थानं कुतोऽस्तु । अपि तु न कुतोऽपीति भावः । मात्रपदेन तेषामकिंचित्करत्वं सूचितम् । अत्राङ्गनशब्दो णकारान्त इति केचित्पठन्ति, तदप्रामाणिकम् । न च पृषोदरादिपाठेन णत्वमिति वाच्यम् । पृषोदरादिपाठे प्रमाणाभावात् । तथाविधानुप्रासयमकादेरदर्शनात् । प्रत्युत 'तवर्गपञ्चमोपान्तमङ्गनं केवलं विदुः' इति शब्दभेददर्शनात् । 'अङ्गनं प्राङ्गणे याने कामिन्यामङ्गना मता' इति मेदिनीकरादिकोषे नान्तवर्गे तस्य पाठाच्चेत्यवधेयम् । 'भयंकरं प्रतिभयम्' इत्यमरः । 'प्रतिश्रयः सभायां वाश्रये प्रतिभयं भये' इति विश्वः । पुनः स्तुतिमाह-दत्तेत्यादि । न भयमभयम् , विभ्रमो विलासः, अद्भुतमाश्चर्यम् , विभ्रमस्याद्भुतं विभ्रमाद्भुतम् , अभयं च विभ्रमाद्भुतं चेत्यभयविभ्रमाद्भुते । इन्द्रेण सह षष्ठीसमासः । दत्ते इन्द्राभयविभ्रमाद्भुते यया भुजया तादृशी च भुजा चेति कर्मधारये 'स्त्रिया:-' इत्यादिना पुंवद्भावः । तस्याः संभारो धारणं पूर्णत्वं वा तेन गम्भीरयानाकलितस्वरूपया त्वद्वृत्त्या त्वदीयशौर्यादिव्यापारेण नारायणस्त्रिभुवनरक्षायै शिथिलीकृतः सन् । उक्तं च-'सृजलजो रक्षति शाङ्गपाणिः' इति । अन्तस्तोषेणाभ्यन्तरहर्षेण यस्तुषारसौरभमयः शीतल: सुगन्धिश्च तथाविधः श्वासानिलश्चेति समासः । तेनापूरणं पूर्तिर्यस्य प्राणस्य वातविशेषस्य तेनोत्तुङ्ग उच्छ्रितो यो भुजंगः सर्पः स एव तल्पं शयनीयं यथा स्यादेवम् । अधुना संप्रति भद्रेण मुखेन । रक्षाव्याकुलतारहितत्वात् । निद्रायते । निद्रां करोतीत्यर्थः । अयमभिप्रायःशेषे शेते भगवान् , सर्पस्य च वायुर्भक्ष्यः, तथा च श्वासानिलभक्षणात्तस्य स्वास्थ्य उपजायमाने देहस्य समत्वं जातम् , तेन भगवतः सुखेन निद्रा भवतीति । एतेनेन्द्रादीनामभयदातृत्वेनास्मदादीनामभयप्रदातृत्वं भवतामीपत्करमिति भावः । 'तुषारः शीतलः शीतः' इत्यमरः । 'दोर्दोषा च भुजा भुजः' इत्यपि । 'तल्पं तु शयनीये स्यात्' इति धरणिः । निद्रायत इति 'कर्तुः क्यड्' इति क्यङ् । सवैलक्षमिति । वैलक्षं संकोचः। त्रिभुवनशिरोलंकारभूतोऽपि मामयं विश्वामित्रः केशवेन्द्राभ्यामहणीयाभ्यामुत्कर्षयतीत्यत्राश्रवणश्र
१. 'इहाङ्गणपदेऽनुविधायकाभावाण्णत्वश्रुतिरयुक्ता' पृषोदरादित्वाण्णत्वमित्यपि वचोऽमूलकमेव, प्रत्युत 'अङ्गनं प्राङ्गणे जाले कामिन्यामङ्गना मता' इति विश्वादिकोषात् 'तवर्गपञ्चमोपान्तमङ्गनं केवलम्' इति शब्दप्रकाशाच नान्तत्वमेवेत्यवधेयमिति मालतीमाधवटीकायां प्रथमाङ्के जगद्धरः.
For Private and Personal Use Only